________________
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः
पृष्ठाकाः। प्रथमाध्यायस्य चतुथः पादः १॥४॥
१ आनुमानिकाधिकरणम् । १ इन्द्रियेभ्यः परा इति काठकवाक्ये सांख्यमतसिद्धाः पदार्था १०० उच्यन्त इत्याशङ्कय समाधीयते नात्र तन्मतसिद्धाः पदार्था उच्यन्ते किंतु पूर्वमात्मानं रथिनं विद्वीत्यादिना शरीररूपकं यदुक्तं तत्रत्या ये रथादिभावेन पदार्था निविष्टास्त एवात्रास्मिन्वाक्ये गृह्यन्ते । एतद्धि जीवप्रकरणम् । अत्र च तस्य मुक्त्युपायो निरूप्यते । शरीरं रथ इत्यादिरूपोत्र ब्रह्मवाद एव सिध्यति न सांख्यमतं यतोग्र एष सर्वेषु भूतेष्विति मन्त्रेणात्मदर्शनपरिकरतयैव बुध्द्यादीनामुक्तिः । २ अव्यक्तशब्देन सूक्ष्ममुच्यते तद्ब्रह्मैव । धर्मधर्मिणोश्चाविना- १०२
भावेन स्थितत्वादभेद इति तदभिन्ना भगवत्कृपैवात्रोच्यते । ३ कृपाया ब्रह्माभिन्नत्वेपि ब्रह्माधीनत्वाद्ब्रह्मभिन्नत्वं ब्रह्मभिन्न- १०२ त्वाद्ब्रह्मनियम्यत्वम् । अतो यथैकरूप्येण ग्रहणमभेदे युक्तिस्तथा नियम्यनियामकभावोपि भेदे युक्तिरित्युभयथाप्युपपन्नम् । न चाभेदेनैकत्वे नियम्यनियामकभावानुपपत्तिरिति शङ्कन्यम् । ब्रह्मविदाप्नोति परमित्यत्रैकस्यैव ब्रह्मणः सच्चिद्रूपेण विषयत्वमानन्दरूपेण फलत्वमितिवदुपपत्तेः । तथाच कृपाविष्टः साधनमानन्दरूपः फलम् । अथवाव्यक्तं सच्चिद्रूपमक्षरमानन्दरूपः पुरुष इति तयोरभेदेपि परापरभावो
युक्तः । ४ अस्मिन्वाक्येव्यक्तं ज्ञेयत्वेनोच्यते । कापिलमते तथावचना- १०३
भावान्न तन्मतसिद्धिः। ५ प्रकरणस्य नियामकत्वादशब्दवाक्यमपि भगवत्परमेव । १०३ ६ अत्र हि त्रयः प्रश्ना अमिजीवब्रह्मविषयकास्तेषामुत्तराणि १०३
त्रीणि । यदि सांख्यमतमिन्द्रियेभ्यः परा इत्यादि स्यात्तदा चतुर्थे प्रश्नोत्तर स्यातां ते तु न स्तोतो नात्र तन्मतसिद्धिः। - उ [ अणुभाष्य )