________________
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
८ प्रकृतिश्चेत्यधिकरणम् । २३ प्रकृतिशब्दवाच्यं ब्रह्मैव । छान्दोग्य एकविज्ञानेन सर्वविज्ञानं ११६
यत्प्रतिज्ञातं मृदादिदृष्टान्ताश्च तदनुपरोधात् । तथा च यदि मूलकारणे ब्रह्मणि समवायिकारणत्वरूपं प्रकृतित्वं न स्वीक्रि
येत तदा प्रतिज्ञादिसामञ्जस्यं न स्यात् । २४ सृष्टौ भगवत्कृतमभिध्यानं स्वस्य बहुरूपत्वेनोच्चनीचभावेन ११७
च यद्विचरणं तद्धेतुत्वेनोक्तं तेन स्वयमेव तद्रूप इति सिध्यति । किंच सर्वं खल्विदमित्युपासनाप्युपदिश्यतेतोपि
प्रकृतिशब्दवाच्यं ब्रह्मैव । २५ सर्वाणि ह वा इमानीति श्रुत्या ब्रह्मणः प्रपञ्चोत्पत्तिलयाधारत्वं ११७
साक्षादेवोच्यते तच्च समवायित्वस्यैव लिङ्गम् । ततोपि ब्रह्मैव
प्रकृतिशब्दवाच्यम् । २६ ब्रह्मपरिणामलक्षणं कार्यमिति जगत्समवायिकारणत्वं ब्रह्मण ११७
एव। २७ सदेव सोम्येदमित्यादिषु सृष्टिबोधकश्रुतिष्ववधारणदर्शनाद् ११८
ब्रह्मैव समवायिनिमित्तेति द्वयं कारणम् । अन्यथावधारणविरोधापत्तेः । किं च कर्तारमीशमित्यादिषु योनित्वमपि ब्रह्मण एवोच्यते पुरुषत्वं च । तस्मादक्षरपुरुषभावेनोभयरूपो भगवानेव । अतः कथंचिदपि न प्रकृति
प्रवेशः। २८ यत्र ब्रह्मणः सर्वविधं कारणत्वं नोच्यते ते सर्वे स्मार्तवादा ११९ अवैदिका अनुपयुक्ताश्च ॥
इति प्रथमोध्यायः ॥