________________
अ. पा. ३ सू. १ ]
6
अणुभाष्यम् ।
२२२
इत्यनेन पूर्वोक्त एव पुरुष उच्यत उत तद्भिन्न इति भवति संशयः । किमत्र युक्तम् । पूर्वोक्त एवेति । यतः पूर्वोक्तस्यैव स वा एष इत्यनेन प्रत्यभिज्ञानं प्रतीयते । तत्र ब्रह्मत्वेनोपासना कार्येत्यभिप्रायेण ब्रह्मत्वेन स्तूयत इति प्राप्त आह । कार्याख्यानादपूर्वमिति । पूर्वस्यान्नकार्यस्य ५ पुरुषस्याख्यानात् - स वा एष इत्यनेनाग्रिमश्रुतिभिर्ब्रह्मत्वेन प्रतिपिपादयिषितमन्न रूपमेवोच्यते न तु पूर्वमित्यर्थः । स वा एष इति प्रत्यभिज्ञानमिति यदुक्तं तन्न । अन्नात्पुरुष इत्यनेनाधिभौतिकतन्निरूपणात् । स वा एष इत्यनेनाध्यात्मिकतन्निरूपणादुभयोश्च भेदात् । अत एव संशयाभावायाह । वै निश्वयेन । एष वक्ष्यमाणः पुरुषः स आध्यात्मिकत्वेन १० प्रसिद्धोन्नरसमय इति । अन्यथा ब्रह्मात्मकतपोलक्षण साधनेनाधिकारे संपन्ने-अन्नं ब्रह्मेति व्यजानात् (तै ३२ ) इति न वदेत् । न च तदपि तथात्वेन स्तूयत इति वाच्यम् । श्रुतेः प्रतारकत्वापत्तेः । आनन्दमयान्तमेवमेव निरूपणाच्च । अत एवास्याप्यात्माग्रे निरूपितो यः पूर्वस्येति । सत्वाधिदैविक आनन्दमयः । अथवा वाजसनेयिशाखायाम्-आत्मेत्ये१५ वोपासीत (बृ. १।४।७ ) इत्युपक्रम्य - तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ( बृ. १।४।८ ) इत्येवग्रेन्यस्य प्रियत्त्वं निराकृत्येश्वरो हि तथा स्यात् । आत्मानमेव प्रियमुपासीतेति पठ्यते । अत्रात्मौपाधिकत्वात् सर्वत्र प्रियत्वस्यात्मपदेन जीवात्मन एव प्रियत्वेनोपासना विधीयत उतेश्वरपदात्परमात्मन इति भवति संशयः । किमत्र १० युक्तम् । जीवात्मन एवेति । कुतः । यथा पुत्रादेरात्मोपाधिकप्रिय। त्वोक्त्या जीवात्मन एव प्रियत्वमुच्यतेन्यत्र श्रुतौ तथेहापि । प्रेयः पुत्रादित्यादिकथनाज्जीवात्मैव भवितुमर्हतीति प्राप्त आह । कार्याख्यानादपूर्वमिति । इतः पूर्वमाम्नायते – प्राणन्नेव प्राणो नाम भवति वदन् वाग् रूपं पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैवैतानि कर्मनामान्येव २५ (बृ. १।४।७ ) इति । तथा च प्राणनवदनादिकार्यैः कृत्स्नप्राणवागादित्वेनैकस्यैवात्मन आख्यानात् कथनादपूर्वम् । पूर्वं तु पुत्रवित्ताद्यभिमान -
11-C reads एतदपि for तदपि ।