________________
२२३
३ कार्याख्यानाधिकरणम्। [अ. 3 पा.सू. १९ दशायां-न वा अरे पत्युः कामाय पतिः प्रियो भवति (बृ. २।४।५) इत्यादिना यत्मियत्वेनोच्यते तस्माद्भिन्नमात्मशब्दवाच्यमत्रेत्यर्थः । लोके हि प्राणकायुवागिन्द्रियादीनामेव तत्तच्छब्दवाच्यता न तु जीवस्यात एवाग्रे श्रुतिराहेश्वरो हि तथा स्यादिति । अत एव-प्रेयोन्यस्मात्सर्वस्मा५ दन्तरतरं यदयमात्मा (बृ. १।४।८) इत्याह । अन्तरो जीवात्मा ततोप्यतिशयेनान्तरमन्तरतरं पुरुषोत्तमस्वरूपमेव भवितुमर्हति। एतेन विग्रहस्यैवात्मरूपत्वं सिद्धयति । तेनाविकृतत्वपरमानन्दत्वादयोपि धर्मा उपसंहर्तव्याः ॥१८॥
___ ननु विग्रहे चक्षुःश्रोत्रादीनां वैलक्षण्यप्रतीतेरात्मनश्चैकरसत्वा• दुक्तकर्मनामवत्त्वं ब्रह्मण्यनुपपन्नमित्याशङ्कयोत्तरं पठति ।
समान एवं चाभेदात् ॥ ३३॥१९॥ चोप्यर्थे । तथा चैवमपि सति श्रोत्रचक्षुरादिवैलक्षण्यप्रतीतावपि सति समान एकरूप एव न तु विषमः । तत्र हेतुरभेदादिति । चक्षुरा
दीनां ब्रह्मत्वेन परस्परमभेदादित्यर्थः। अत्रेदमाकूतम् । तं त्वौपनिषदं पुरुषं १५ पृच्छामि (बृ. ३।९।२६) इति श्रुतेरुपनिषद्वेद्यमेव ब्रह्मस्वरूपम् ।
ताश्च-पाणन्नेव प्राणो भवति वदन् वाक् (बृ. १।४७) इत्यादिरूपाः। पंतिनियतेन्द्रियग्राह्यानर्थान् स्वरूपेणैव गृण्हद् ब्रह्म तत्तच्छन्दवाच्यं भवतीति वदन्ति । तद्वाच्यता च व्यवहार्यत्वे । स च तदेतत्प्रेयः पुत्रात् (बृ. १।४।८) इत्यादिवाक्यैकवाक्यतया निरुपधिस्नेहवतामेव व्यवहार्य ॥ इति ज्ञाप्यते । स चाविर्भूतेवताररूप एव संभवति । एवं सति तत्र भक्तैभगवद्विग्रहे तत्तदवयवेषु भेदेन यथा यथा व्यवह्रियते तथा तथैव तदेकमेवाखण्डसच्चिदानन्दरूपं ब्रह्मेत्यर्थः संपद्यते। एवंविधो लोके न प्रसिद्ध इत्यसंभावना स्यात् तदभावायाये श्रुतिराहेश्वरो हि तथा स्यादिति ।
एतेनाविर्भूतरूपे व्यापकत्वैकरसत्वसच्चिदानन्दत्वादयो धर्मा उपसंहर्तव्याः २५ अनाविर्भूतेपीति स्थितम् । एवं सत्याविर्भावनाविर्भावेपीश्वरः समानः । न
ह्याविर्भावे कांश्चनागन्तुकान् धर्मानादायाविर्भवतीति वक्तुं शक्यमनाविर्भू