________________
२२१
३ कार्याख्यानाधिकरणम् । । अ. 3 पा. ३ सू. १८
णम् । तस्यैष एव शारीर आत्मा (तै २/३ ) इति यत्तदुत्तरात् । यः पूर्वस्येति सर्वत्रोक्तत्वात् सर्वेभ्य उत्तर आनन्दमयस्तस्माद्धेतोरित्यर्थः । तत्तच्छरीराभिमानित्वात्तथा । एतद्यथा तथानन्दमयाधिकरणे प्रपञ्चितमस्माभिः । अथवान्योन्तर आत्मेत्यन्नमयादन्यत्र सर्वत्रोक्तत्वात्पूर्वनिरू५ पितो यः स इतर इत्युच्यते । तथा च यः पूर्वस्येति श्रुत्येतरवत् पूर्वनिरूपितवत् प्रकृतस्याप्यात्मग्रहणकथनं यत्तदुत्तरादिति पूर्ववत् ॥ ३।३।१६ ॥
अन्वयादिति चेत्स्यादवधारणात् || ३|३|१७ ॥
ननु सर्वत्रान्योन्तर आत्मेति श्रुत्या प्रत्येकमन्नमयादीनां भेदनि१. रूपणाच्छारीरपदाच्च भिन्न भिन्नो जीव एवात्मा शरीराभिमानी सर्वत्रोच्यते । आनन्दमयेपि तथोक्तिर्यां सा त्वानन्दमयस्य ब्रह्मत्वेन व्यापकत्वेन सर्वत्रान्वयात् । सर्वेषु शरीरेषु संबन्धादित्याशङ्कय तन्निरासायोक्तेर्थ उपपत्तिमाह स्यादित्यादिना । स्यात् आनन्दमय एवोक्तसर्वशरीराभिमानी भवतीत्यर्थः । तत्र हेतुरवधारणादिति । एष एवेत्येवकारेणेतरनि१५ षेधपूर्वकमानन्दमयस्यैवात्मत्वनिर्धारादित्यर्थः ॥ ३।३।१७ ॥ २ ॥
३ कार्याख्यानाधिकरणम् । कार्याख्यानादपूर्वम् || ३|३|१८ ॥
तैत्तिरीयके पठ्यत । तस्माद्वा एतस्मादात्मन आकाशः सभूतः ( तै. २१ ) इत्युपक्रम्य महाभूतसृष्टिमुक्त्वाम्नायते - पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोन्नरसमय: ( तै. २1१ ) इति । एतदग्रेन्नस्योत्पत्तिस्थितिलयहेतुत्वमुक्त्वाग्रे यन्नं ब्रह्मोपासते
३०
(तै २१ ) इत्युच्यते । भृगुवरुणसंवादे च - अन्नं ब्रह्मेति व्यजानात्
.
( तै. ३२ ) इत्युच्यते । तत्र - स वा एष पुरुषोन्नरसमय: ( तै. २1१ )
3-ख om. तथा after यथा ।
11-ख om. व्यापकस्बेन after ब्रह्मत्वेन ।