________________
अ. 3 पा. 3 सू. १४] अणुभाष्यम् ।
२२० उपयुक्तास्त एवोपसंहर्तव्या नान्ये। तत्र हेतुः । प्रयोजनाभावादिति। ध्यानपदार्थस्य तावद्भिरेव सिद्धरधिकोपसंहारे तथात्वादित्यर्थः ॥ ३१४॥ अन्येषामनुपसंहारे हेत्वन्तरमप्याह ।
आत्मशब्दाच्च ॥ ३॥३॥१५॥ प्रियमेवेत्यादिना परोक्षवादेनोक्तानां प्रियप्राधान्यादीनामेव भावना कार्या । नतु यथाश्रुतानां शिरःपक्षादीनाम् । तेषामविवक्षितत्वात् । तत्र हेतुरात्मशब्दादिति। आनन्द आत्मा इत्यनेन पूर्वोक्तानां प्रियप्राधान्यादीनां रसात्मकानामात्मा स्वरूपमानन्द इत्युक्तम् । अग्रे-रसो वै सः (तै.२।७)
इति वक्ष्यमाणत्वात्तस्य च स्थायिभावात्मकत्वात्तस्यैवानन्दमयत्वाच .. प्रियविषयकलीलामध्यपातिभक्तज्ञानप्रकाराणामपि रसात्मकत्वेनानन्दरूपत्वात्तेषामुपासना तूत्तमाधिकाराभावाच्छिरःपक्षादिरूपेण कार्येति भाववती श्रुतिस्तथा न्यरूपयत् । एतन यत्परम्परासंबन्धेप्युपास्यत्वं तदस्य महत्त्वं कियदवाधि वाच्यमिति ज्ञाप्यते । एवं सत्युपासनामागीयोपास्यं विभूतिरूपं न तु मूलरूपम् । यं न योगन (भा. ११।१२।९) इति वाक्या१५ दिति ज्ञयम् ॥ ३॥३१५॥ १ ॥
२ आत्मगृहीत्यधिकरणम् । आत्मगृहीतिरितरवदुत्तरात् ॥ ३॥३॥१६॥
तैत्तिरीयकन्नमयादिनिरूपणे पुरुषविधत्वं तेषां निरूप्य-तस्यैष एत शारीर आत्मा य: पूर्वस्य (ते. २।३ ) इति सर्वत्र निगद्यते । २० तत्रानन्दमयपर्यन्तं शारीरात्मत्वकथनाद्भवति संशयः । शरीराभिमानी
जीव एव काश्चदुत ब्रह्मैव । तत्र शारीरपदाजीव एव भवितुमर्हति । तथा सत्यानन्दमयस्यापि ब्रह्मत्वं नोपपद्यते । उच्यते च भार्गव्यां विद्यायाम्अन्नं ब्रह्मेति व्यजानात् (तै, ३।२) इत्यारभ्यानन्दमयपर्यन्तम्
आनन्दो ब्रह्मेति व्यजानात् (ते. २६) इत्यन्तया श्रुत्या ब्रह्मत्वमि१५ त्युभयतःपाशा रज्जुरिति प्राप्त आह । इतरवनीववदात्मगृहीतिरात्मग्रह
1-Creads प्रयुक्ताः for उपयुक्ताः ।