________________
२१९
१ सर्ववेदान्तप्रत्ययाधिकरणम्। [ अ.पा. सू. १४ अथवा नन्वानन्दमयोपासनामथर्वणोपनिषदुक्तपञ्चरात्राद्यागमोक्तप्रकारेण कुर्वतः पुरुषरूपे पक्षाद्युपसंहारस्यायुक्तत्वादानन्दमयाधिकरणे तद्रूपस्यैवोक्तत्वात्पुरुषरूपः कथमानन्दमयः 1 तथात्वे वा कथं नोतोपसंहारः । अपरं च मोदप्रमोदयोरुपचितानुपचितानन्दरूपयोर्यु५ गपत्सत्त्वेन देशभेदेनापि भिन्नत्वान्नित्यानन्दैकरसे ब्रह्मणि तादृग्रूपकथनमनुपपन्नमित्याशङ्कय परिहरति । प्रियशिरस्त्वादीति । यद्यथर्वणोपास्यात् प्रियशिरस्त्वादिविशिष्टस्य भेदः स्यात् तदा तदप्राप्तिः स्यान्न च तथेति प्रियशिरस्त्वादिकमुपासनामार्गीयस्याप्याथर्वणि कादेरुपसंहार्यमेवेत्यर्थः । विशुद्धितारतम्यहेतुकं प्रियत्वादिज्ञानमिति पक्षे परो१. क्षवादपक्षेपि तत्र भेदाभावान्मोदप्रमोदयोर्न त्वदुक्तरूपत्वमित्यर्थः । ब्रह्मधर्मा एव भिन्ना इत्युपासनार्थं तानादाय शिरः पाण्यादि निरूप्यत इति तत्रैव निरूपितमस्माभिः । यद्यप्यानन्दमयाधिकरण एवास्यार्थस्योक्तत्वानेयं शङ्का संभवति । तथापि गुणोपसंहारप्रसंगे मिथ्यावादिन आपाततः शङ्का संभवतीत्याचार्येणोक्त्वा निरस्ता || ३|३|१२ ॥
१५
ननूपास्यरूपस्याविरुद्धा एव गुणा उपसंहर्तव्या न तु विरुद्धाः । तथा च पुरुषरूपे पक्षादि विरुद्धमिति न तदुपसंहार्यमित्याशङ्कयाह । इतरे त्वर्थसामान्यात् ॥ ३।३।१३ ॥
इतरे पुरुषरूपे विरुद्धत्वेन ये भासमाना धर्मास्तेप्युपसंहर्तव्याः । तत्र विरोधव्यवच्छेदज्ञापनाय तुशब्दः । तत्र हेतुरर्थ सामान्यादिति । अर्थः २० पदार्थ आनन्दमयत्वलक्षणस्तस्य समानत्वादेकत्वादित्यर्थः || ३|३|१३ ॥ अथानन्दमयाधिकरण उक्तप्रकारेण ये प्रियत्वादिधर्मास्तेषामेवोपसंहारः कार्यो नत पुरुषरूपे पक्षादीनामपीत्यग्रिमं पठति । आध्यानाय प्रयोजनाभावात् || ३|३ | १४ ॥ आनन्दस्वरूपस्य यावन्तो धर्मा भक्तिमार्गीयाः परोक्षवादेनोच्यन्ते १५ प्रियत्वप्राधान्यादयस्तेषां सर्वेषामाध्यानमासमन्ताद् ध्यानं तदर्थं ये धर्मा
•
25- roads समर्थ व धर्माः for तदर्थ वे धर्माः ।