________________
अ. ३ पा. ३ सू. १० ]
अणुभाष्यम् ।
र्भावे भगवतो व्यापकत्वेनैव प्रादुर्भावस्योपपन्नत्वेपि लीला पदार्थानामन्यापकत्वाद्युगपदाविर्भावानुपपन्नः । भक्तयोः समानत्वाद्भक्तिमार्गविरोधापाताद्विनिगमकाभावाञ्च्चैकत्र मायया प्रदर्शयतीति च न वक्तुं युक्तमिति शङ्काप्येताभ्यां सूत्राभ्यां निरस्तेति ज्ञेयम् । ब्रह्मणो व्यापकत्वाल्लीलायाश्च ५ तेन सहाभेदात्तथात्वादेकस्मै भक्ताय यथा ब्रह्मणा सह लीला पदार्था आविर्भवन्ति तथैव तदैवान्यत्रापि भक्तसमानदेश आविर्भवन्तीति सर्वसामअस्यात् || ३|३|१० ॥
२१८
ननु व्यापकत्ववत्पूर्णानन्दैश्वर्यवीर्यादयोपि धर्मास्तेषु प्रतीता भवेयुः । न चैवमस्ति । दुःखसंभावनायां प्रभुमेव प्रार्थयन्ति यतः । १० एवं सति व्यापकत्वमपि न वक्तुं शक्यम् । तुल्यत्वादत उत्तरं पठति । आनन्दादयः प्रधानस्य || ३|३|११ ॥
पूर्णानन्दैश्वर्यादयः प्रधानस्य धर्मिणो ब्रह्मण एव धर्माः । लीलापदार्थास्तु ब्रह्मधर्मत्वेन व्यापका उच्यन्ते । व्यापकस्य धर्मिणोनागन्तुक - र्मस्य व्यापकत्वनियमात् । न हि धर्मेषु पूर्णानन्दत्वादयः संभवन्ति । १५ धर्मित्वापत्त्या धर्मत्वव्याहतेः । अत एवात्र प्रधानपदमुपासं धर्मगुणभावेन लीलापदार्थानामाविर्भाव इति ज्ञापयितुम् || ३ | ३|११ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ३।३।१२ ।।
ननूपासकस्य प्रियत्वादिप्रकारकज्ञानक्रममादाय प्रियत्वादिधर्माणां शिरस्त्वादिरूपत्वमानन्दमयाधिकरणे निरूपितमिति लीलास्थाना२० मपि प्रियत्वादिज्ञानस्य सत्त्वादत्रापि स्वरूपोपासकस्य प्रियशिरस्त्वादिधर्माणामुपसंहारः कार्य इत्याशङ्कय परिहरति । प्रियशिरस्त्वाद्यप्राप्तिरिति चित्तशुद्धितारतम्यहेतुकप्रियत्वादिज्ञानं लीलास्थानां
चित्तशुद्धयपेक्षाभावान्न संभवतीति न तेषामत्रोपसंहारः कार्य इत्यर्थः ।
2-ख reads आविर्भावानुपपत्तेः for ऑबिर्भावानुपपन्नः ।
3-A and Com. न after च ।
4- B om. सूत्राभ्यां after एताभ्याम् ।