________________
२१७
१ सर्ववेदान्तप्रत्ययाधिकरणम् । [अ. 3 पा. 3 म. १०
व्याप्तेश्च ममन्जसम् ॥ २३॥९॥ अथेदं विचार्यते । उपास्येषु रूपेषु बाल्यपोगण्डादिकमप्युच्यते । तथा सति विग्रहे न्यूनाधिकभाव आपततीति तत्रोक्तं सच्चिदानन्दत्वमनुपपन्नं स्यात् तेषां सदैकरूपत्वात् । प्राकृतत्वेच सर्वमसमञ्जसं स्यादिति ५ प्राप्त आह । व्यामेरिति । सर्वतःपाणिपादान्तम् ( भ. गी. १३।१३) इत्यादिस्मृतेः साकारमेव व्यापकमिति। चकारात् सर्वरस (छां. २।१४।२) इति श्रुत्या रसात्मकत्वेन भक्तानां यादृग्रूपेण लीलारसानुभवस्तादृग्रूपं क्रमेण योगमायापसारणेन प्रकटीकरोतीति बाल्यादिभावोपपत्तेः सर्वमुपपन्नमित्यर्थः । तेन यावदुक्तधर्मवद ब्रह्मेति सिद्धम् ॥ ३॥३॥९॥ १. ननु ब्रह्मधर्मत्वेन ते सर्वे नित्या वाच्याः। तेच तत्तद्भक्तविशिष्टाः। तत्र चैकस्यैव भक्तस्य पौर्वापर्येणानेकलीलासंबन्धित्वं श्रूयते । तथा च पूर्वलीलाया नित्यत्वेन तत्संबन्धिभक्तस्यापि तथात्वं वाच्यम् । एवं सति तस्यैवाग्रिमलीलासंबन्धोशक्यवचनः । तथा वचने तु पूर्वलीलाया नित्यत्वं भज्येत । नित्यत्वे त्वग्रिमलीलासंबन्धिनोभिन्नत्वं स्यात्। तच्चा१५ नुभवतदावेदकमानविरुद्धमित्यत उत्तरं पठति ।
सर्वाभेदादन्यत्रेमे ॥३॥१०॥ लीलामध्यपातिनां सर्वेषां पदार्थानां ब्रह्मणा सहाभेदाद् ब्रह्मणश्चैकत्वात् पूर्वलीलातोन्यत्रोत्तरलीलायामपीमे पूर्वलीलासंबन्धिन
एव त इत्यर्थः । अत्रेदमाकूतम् । रसौ वै सः ( ते. २७ ) २० इति श्रुत्या सर्वरसः ( छां. ३२१४।२ ) इति श्रुत्या च सर्व'रसात्मकत्वं ब्रह्मणो निर्णीतम् । तथा च यस्य रसस्य ये विभावानुभावादिरूपास्तैः स रसः संपद्यते। आतानवितानात्मकतन्तुभिः पट इव । अतस्तत्तादात्म्यं रसस्येति सर्वाभेदो निष्प्रत्यूह इति । ननु विरुद्धदिक्कयोरेकजातीयभाववतोभक्त्यतिशयेन युगपदेकजातीयलीलांसहितभमदत्यादु
10-A, C and D read ब्रह्मधर्मवत्त्वेन for ब्रह्मधर्मत्वेन । 20- om. सर्वरसः इति श्रुत्या च after श्रुत्या ।
२८ [अणुभाष्य