________________
२१६
अ, 3 पा. ३ . ७] अणुभाष्यम् । यस्त्वादिवदिति । अस्मिन्मे लोकेर्द्धक ५ स्यात् (तै. सं. ६।२।३ ) इति कामवत आराग्रावान्तरदीक्षा पूर्वमुक्ता । तदग्रे-परोवरीयसीमवान्तरदीक्षामुपेयायः कामयेतामुष्मिन्मे लोकेर्द्धक र स्यादिति चतुरोग्रेथ त्रीनथ द्वाव
थैकमेषा वै परोवरीयस्यवान्तरदीक्षा (तै. सं. ६।२।३ ) इति पठितम् । ५ अस्य दीक्षाप्रकरणे पठितत्वाद् दीक्षां विनोक्तरीत्या व्रते तु न परोवरी
यस्त्वमेवं भक्तिप्रकरणीयानामथर्वणोपनिषदाद्युक्तरूपाणां न भक्तिरहितोपास्यत्वम् । ज्ञानसाधनत्वेन विष्णुस्मरणादावपि क्रियमाणे भक्तित्वं नेति । अथवा पूर्वसूत्रेण सर्वरूपेषु मिथः सर्वधर्माणामुपसंहारः प्राप्तः। स चैकान्तिकभक्तानुभवविरुद्ध इत्यत्र व्यवस्थितविकल्पमाह । न वेत्यादिना । १० सर्वेष्ववतारेषु भगवदवतास्त्वेन साधारणी भक्तिर्यस्य स सर्वत्रोपसंहारं
करोतु नाम । यस्त्वेकान्ती तस्य स्नेहोत्कर्षेणान्तःकरणमेकस्मिन्नेव रूपे पर्यवसितमिति रूपान्तरमन्तःकरणारूढं न भवत्येवोत नोपसंहारसंभावनापीति । तदेतदुच्यते । नवेत्यनेन । तत्र हेतुः। प्रकरणभेदादिति ।
श्रुत्यादिषु तत्तदाधिकारिणमुद्दिश्य तत्तत्प्रकरणमुक्तम् । तेनात्र प्रकरणभेदे१५ नाधिकार उच्यते । एवं सत्युपासकादिभ्य उक्तरीत्योत्कृष्टाधिकारादित्यर्थः संपद्यते । परोवरीयस्त्वादिवदिति । परस्मात्परश्च वराच्च वरीयानिति परोवरीयानुद्गीथः । तथा चाक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोपासनाया अप्युद्गीथोपासनत्वेन साम्येपि सर्वोत्कृष्टत्वेनैवोद्गीथो भासते
इति न हिरण्यश्मश्रुत्वादिगुणोपसंहारः परोवरीयस्त्वादिगुणविशिष्टोद्गीथो२० पासनायामेवं प्रकृतेपीति ॥ ३॥३॥७॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥३८॥
एकान्त्यनेकान्तिनोरपि श्रीरामपाासकत्वादिसंज्ञा त्वविशिष्टेत्येकान्तिनोप्युपसंहारो युक्त इत्याशङ्कोत्तरं तु न-वा प्रकरणभेदात् (ब. सू.
२३७ ) इत्यनेनैवोक्तम् । संज्ञा तु लौकिकी । अधिकारस्त्वान्तरः । स २५ एव बलीयानिति । संज्ञैकत्वस्य हेतोरन्वयव्यभिचारमाह । अस्ति तु
तदपीति । प्रमितभेदेष्वप्युपासनेषु परोवरीयस्त्वादिषु संज्ञैकत्वमुद्गीथोपासनेप्यस्तीत्यर्थः ॥ ३॥३८॥ 2ti-Creads प्रमिति for प्रमित and a reads प्रमितः for the same