________________
२१५
१ सर्ववेदान्तप्रत्ययाधिकरणम् । [ अ. पा. सू. ७
सृजते (तै. बा. १।४।११ ) इत्येका श्रुतिरस्य यागस्य प्रजाफलकत्वमाह । यद्वैश्वदेवेन यजते अग्निमेव संवत्सरमाप्नोति तस्माद्वैश्वदेवेन यजमानः संवत्सरीणाः स्वस्तिमाशास्ते इत्याशासीत ( तै. बा. १।४।११) इति द्वितीया श्रुतिराह । तत्रोक्तरीतिरिति । यत्तु विधिशेषाणामग्निहोत्रादिध५ र्माणां तदेवैकमग्निहोत्रादिकर्म सर्वत्रेत्यर्थाभिदादुपसंहार इति । तन्न साधु । अग्निहोत्रादेस्तत्तच्छाखिनां स्वस्वशाखोक्तप्रकारस्यैव करणादतिरेके प्रायश्चित्तश्रवणान्नान्यशाखेोक्तधर्मोपसंहारः शक्यवचनः । प्राणाद्युपासनास्वधिकगुणस्येतरत्रोपसंहारे न किंचिद्वाधकं दृश्यत इति तत्र स कर्तुं शक्यत इति चकारेण तदादयः संगृह्यन्ते । वस्तुतस्तु पूर्वसमुच्चयार्थश्र्वकारः । १० शाखान्तरोक्तधर्मोपसंहार प्रयोजनाभावस्य तथात्वेनेत्यत्र निरूपितत्वात् । उपसंहारबीजमनेन सूत्रेणोक्तम् ॥ ३३५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् || ३|३|६ ॥
ननूपासनासूक्तन्यायेन गुणोपसंहारो ह्युपास्यानां ब्रह्मत्वेनैक्ये सति भवति । मिथो विरुद्धानां गुणानां शान्तत्वक्रूरत्वतपोभोगादीनामुपसंहारे १५ क्रियमाणे स्वरूपाणामन्यथात्वमत्रह्मत्वं स्यादित्यर्थः । तत्र हेतुः । शब्दादिति । एकत्वैकरसत्वादिधर्मनिरूपकश्रुतेरित्यर्थः । समाधत्ते । नाविशेषादिति । एकरसत्वं यथा श्रुतिबलान्निर्णीयते तथा विरुद्धधर्मवत्त्वमपि तत एव तथेत्यर्थः । तेन वस्त्वेव तत्तादृङ् मन्तव्यमिति भावः ॥ ३३६ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ३३७ ॥
पूर्वसूत्रोक्ताशङ्कानिराकरणं वा विकल्पेन पूर्वोक्तात्मकारान्तरेण कर्तव्यमित्याह । न वेति । तमेवाह प्रकरणभेदादिति । अत्रायं भावः । श्रुतिप्रामाण्याद्यावत्तदुक्तधर्मवद् ब्रह्मेति मन्तव्यम् । एवं सति यादृशोधिकारिणो यादृग् वेद्यं रूपं तादृशस्य तस्य तादृक् तन्निरूपयति प्रकरणभेदेन । तथा च ज्ञानप्रकरणे ज्ञानाधिकारिणो यादृग् रूपं ज्ञेयं तादृक् तस्मै २५ निरूपयति-अदृश्यमग्राह्यम् (मुं. १/१/६ ) इत्यादिरूपा श्रुतिः । भक्तिप्रकरणे तु भक्तेर्बहुविधत्वाद्ं ग्रादृग ग्रादृग्भक्तानां यादृग्यादृक्तदनुभवविषयस्तादृक्तादृक् तन्निरूपयति । आथर्वणोपनिषदिति । अत्र दृष्टान्तमाह । परोवरी
२०