________________
अणुभाष्यम् ।
२१४
तामेव तथा । तादृक्तामर्थ एव प्राकट्यादित्यवसीयते । एवं सति गुणभेदस्याप्रयोजकत्वात् सर्ववेदान्तप्रत्ययत्वं ब्रह्मणो निष्प्रत्यूहम् ॥ ३३३ ॥ दर्शयति च || ३ | ३|४ ॥
अ. पा. सू.
वेद्यैकत्वेन विद्यानामेकत्वं श्रुतिर्दर्शयति । सर्वे वेदा यत्पदमामनन्ति ५ ( क. २१५ ) इत्यादिना । उपासनाप्रकारभेदेनोपास्यभेददर्शने दोषं च दर्शयति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति ( . २७/१ ) इति । उदित्यव्ययमप्यर्थकम् । तथा चारमल्पमप्यन्तरं कुरुत इत्यर्थः ॥ ३|३|४ ॥ उपसंहारोर्थाभेदाद्विधिशेषवत् समने च ॥ ३३५ ॥
ननुं पूर्वसूत्रोक्तरीत्या गुणोपसंहारो न क्वचिदपि प्राप्तावसर इति सिद्धम् । दृश्यते चोपसंहारः । श्रीरामोपनिषत्सु यो वै ये मत्स्यकूर्मायवतारा : ( रामोत्तर. ५ ) इत्यादिनोक्तावताररूपत्वस्य श्रीरामे- नमस्ते रघुवर्याय रावणान्तकराय च ( भा. १०।४०।२० ) इत्यादिषु ते इति युष्मच्छन्दविषये श्रीजनाथे रघुवर्यत्वादेरित्याशङ्कय तत्प्रयोजकं रूपमाह १५ उपसंहार इत्यादिना । उक्तस्थलादिषु य उपसंहारः स त्वर्थस्य पदार्थस्य भगवल्लक्षणस्योभयत्राप्यभेदादित्यर्थः । नन्वेवं सति मत्स्ये शरचापादिकं पुरुषे च शृङ्गादिकं भावनीयं स्यादिति चेत्तत्राह । विधिशेषवदिति । यथा विधिविशेषाणामग्निहोत्रत्वादिलक्षणे धर्मे समानेपि सति स्वशाखोक्तप्रकारस्यैव करणं नान्यशाखोक्तधर्मोपसंहार एवमिहापि तत्तदवतारोपासकस्य २० तत्तदसाधारणधर्मत्वेनैवापासनं नान्यावतारधर्मवत्त्वेनापीत्यर्थः । यद्वा मत्वर्थीयो वत्प्रत्ययोत्र । तथा च विधिशेषेोर्थवादस्तद्वत्समानं च भवति यत्तत्र चोपसंहार इत्यर्थः । अत्रैवं ज्ञेयम् । एकस्यां श्रुतौ यस्य कर्मणो यत्फलमुच्यते तदितरस्यां तस्यां तस्यैव कर्मणस्तदितरत् फलमुच्यते । एवं सति द्वितीयश्रुत्युक्तफलकामनयापि तदेव कर्म कर्तव्यं भवतीति २५ तत्फलसाधकत्वस्योपसंहारः । यथा-यद्वैश्वदेवेन यजते प्रजा एव तद्यजमानः
15- A reads यतः for यः and ख om. य: before उपसंहारः ।