________________
११३ १ सर्ववेदान्तप्रत्ययाधिकरणम्। [.3 पा. सू. 3 स्यैवांशस्य तद्रूपत्वं यत्तदेवांशत्वम् । यत्राधिष्ठानमनपेक्ष्य स्वयमेव शुद्ध साकारं ब्रह्माविर्भवति भक्तार्थं स स्वयं पूर्णो भगवान् उच्यते । एतदेव च श्रेष्ठयम् । अत एव सर्वतःपाणिपादान्तत्वं स्वस्मिन् स्फुटं ज्ञापयितुं तोकादिभावेनाविर्बभूव तेन यादृग्यादृग् लीलाविशिष्टं यद्यद्वाल्यपोगण्डा. ५ द्यवस्थाविशिष्टं तत्तद्रूपं नित्यमेवेति वयं जानीमः । न चैवं सच्चिदानन्दविग्रहोक्तिः सर्वत्र विरुद्धा भवेदिति वाच्यम् । सत्त्वस्यापि भगवद्धर्मत्वेन सच्चिदानन्दरूपत्वादविरोधात् । मन्त्राद्यधिष्ठातृरूपाणि तु विभूतिरूपाणि । एतच्च यथा तथा भक्तिहंसे प्रपञ्चितम् । तत्त्वं च-प्रकाशाश्रयवद्वा तेजस्त्वात् ( ब्र. सू. ३।२।२८) इति न्यायेन भगवद्धर्माणामपि सच्चिदानन्दरूप• त्वादीनाधिकारिणामप्युपासकानां फलप्रेप्सूनां तत्तत्फलदानार्थमैश्वर्यादिरूपेण तत्र तत्र स्थितत्वमेव । नन्वेकस्यैव शुद्धस्थैवानन्तरूपत्वं भवतैवोक्तमतो मत्स्यादिरूपेष्वपि नाधिष्ठानत्वेन सत्त्वं वक्तुं शक्यम् । किंचैवं निराकारस्वभावत्वं ब्रह्मणः सिध्यतीति सत्त्वाव्यवहितप्राकट्योक्तिरप्यनपपन्नेति चेत् । मैवम् । सत्त्वाधिष्ठानत्वस्य प्रमाणसिद्धत्वेनानपनोद्यत्वात् । १५ तच्चोक्तं यदेकमव्यक्तमनन्तरूपम् ( म. ना. १।५) इति । प्राकट्यं हि
भक्तिनिमित्तकम् । सा तु बहुविधेति तदनुरूपं प्राकट्यमपि तथा। सर्गादिकार्येष्वाधिकृतानां भक्तानामितरासक्तिरप्यस्तीत्युपाध्यन्तरितस्नेहवत्त्वाचानन्तरूपत्वेन मत्स्यादिरूपोपि तदर्थं तद्व्यवाहत एव प्रकटीभवति । ये तु
भगवत्स्वरूपमात्रासक्तास्तदर्थं स्वयमेवातव्यवधानेन प्रादुर्भवति । एतेनैव १. निराकारत्वाशङ्कापि निरस्ता । एतेन सोपधिस्नेहवदर्थमेव मत्स्यादिरूपप्राकट्यस्य प्रमाणसिद्धत्वान्निरुपाधितत्तदर्थमेव श्रीव्रजनाथप्राकट्यस्यापि तथात्वात् सोपाधिस्नेहवत्स्वपि पुरुषार्थदानस्यानुषंगिकत्वात् पुरुषविध इति श्रुतेश्चैतदेव रूपम् । रसो वै सः (तै. २।७) इत्यादिश्रुतिप्रतिपाद्यं निरुपधिस्नेहवतां विषयः । इदमेव च श्रेष्ठयम् । मत्स्यादिरूपं तु सोपधित15-A and. Com. अनन्तरूपम् after अव्यक्तम् । 16-ख reads न तथा for तथा। 18-C and D तद्वयवधानेन for तव्यवहित एव । 20-Creads निराकारत्वशङ्का for निराकारत्वाशङ्का ।