________________
अणुभाष्यम् ।
२१२
।
धर्म एवैष इति निर्धार्यते । तस्मादनवयं विधैकत्वमिति सूत्रार्थं वदन्ति । स चिन्त्यते । न ह्यस्य विद्याधर्मत्वं विद्याभेदकम् । उक्तन्यायेनान्यत्रापि तदुपसंहारस्य वक्तुं शक्यत्वात् । न चानुपसंहारार्थमेवातद्धर्मत्वं बोध्यत इति वाच्यम् । उपक्रमोपसंहाराभ्यां विद्यैकत्वनिर्णयस्यैव दृश्यमा५ नत्वादुपेक्ष्य इव भाति । ननु तदुक्तिर्यथा तथास्तु | अतद्धर्मत्वबोधनस्यानुपसंहारार्थकत्वे कानुपपत्तिरिति चेत् । उच्यते । सूत्रस्य तदुक्तार्थत्वे हि तत्तात्पर्यकल्पना । स एव च न साधीयान् । तथाहि स्वाध्यायोध्येतव्यः (तै. आ.२।१५) इत्यादिषु स्वाध्यायशब्दस्य वेदवाचकत्वं प्रसिद्धम् । समाचारशब्दस्य विहितक्रियावाचकत्वं च तत्रोभयोरपि मुख्योर्थो बाध्यते । १० तस्मिन् संभवति तद्बाधस्त्वयुक्तः । किंचैवं नन्वग्निष्टोममेवोद्दिश्येत्यादिनोक्तशङ्काया अनिवृत्तिरिति । नन्वाथर्वणोपनिषत्सु पठ्यते - सहोवाचाजयोनियवतारणां मध्ये श्रेष्ठोवतारको भविता येन लोकास्तुष्टा देवास्तुष्टा
अ. पा. ३ सु. ३]
3
1
भवन्ति । यं स्मृत्वा मुक्ता अस्मात् संसाराद् भवन्ति कथं चास्यावता - रस्य ब्रह्मता भवति । स होवाच तर हि नारायणो देवः (गो. उ. ता. १ ) १५ इत्युपक्रम्य मथुरास्वरूपं निगद्य निरूप्यते यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ( गो. उ. ता. २ ) इति तेनास्यावतारस्याशेषावताराणां मध्ये श्रैष्ठ्यं निरूप्यते । श्रीभागवतेपि च - एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ( भा. १।३।२८ ) इति गीयते । पूर्वोक्तरीत्या तु सर्वतुल्यता प्रतीयत इति नैकतरनिद्धीरः संभवति । किंच ब्रह्मणो १० निरवयवत्वेनैकस्यांशित्वमन्येषां तदंशत्वमित्यपि वक्तुमशक्यमिति प्राप्तेभिर्धीयते । सत्त्वं यस्य प्रिया मूर्तिः । विशुद्धसत्त्वं तव धाम शान्तम् । इत्यादिवाक्यैरप्राकृतो भगवत्स्थानभूतः सत्त्वनामा भगवद्धर्मरूप एवं कश्वनास्ति । यादृशेन रूपेण भगवान् · कार्यं कर्तुमिच्छति तादृग्रूपं तं प्रकटीकृत्य तस्मिन् स्वयमाविर्भूयायः पिण्डे वन्हि - १५ वत्तत्कार्याणि करोति यस्मिन् यस्मिन्नवतारे स सोंश इत्युच्यते । तत्र
हि विग्रहस्तत्राविर्भूतं ब्रह्मस्वरूपं च प्रतीयते । विग्रहस्य सत्त्वात्मकत्वेन धर्मरूपत्वात्तत्राविर्भूतस्यैव ब्रह्मत्वात्समुदितस्यावतारत्वेन गणनात् तत्रैक