________________
२११
१ सर्ववेदान्तप्रत्ययाधिकरणम् | [ अ. 3 पा. 3 सू. ३
इत्यादि श्रुतिरूपं प्रसिद्धमेव । अपरं च । सर्वासामुपासनानां हि ब्रह्मविज्ञानसाधनत्वेन श्रुतौ निरूपणं क्रियते । यत्मकारिकोपासना विज्ञानहेतुः स प्रकारश्च निरूप्यते । एवं सत्येकस्यां शाखायां कतिपयगुणनिरूपणं तदितरस्यां शाखायां तदतिरिक्तानामपि गुणानामित्यत्र ५ को हेतुरिति पृच्छामः । उपसंहारेण प्राप्तिमनिरूपणे हेतुं चेद्रवीषि तत्र वदामः । एवं सति न्यूनगुणनिरूपिका श्रुतिः स्वोक्तानपि गुणान्न वदेत् । तथाहि । उपासनानां ब्रह्मविज्ञानफलकत्वस्य निर्णीतत्वात् तस्य चैकजातीयत्वाद् घटवत् क्ऌप्ताशेषसाधनसाध्यत्वादशेषतन्निरूपिकैव श्रुतिर्निरूपयेत् । अन्या तूपासनाया नामोक्त्वोपासीतेत्येतावदेव वदेत् । गुणानाक्षेपलभ्य१०`त्वान्न वदेत् । उपसंहार्यानपि वा वदेत् । निरूपयति च गुणान्नोपसंहार्यान् । न च स्वस्वशाखामात्राध्येतॄणामुपासनासिद्ध्यर्थं सर्वशाखासूपासनप्रकारोक्तिरिति वाच्यम् । परशाखाज्ञानेन तदुक्तगुणोपसंहारस्याप्यसंभवेनोपासनाया एवासंभवापातात् । तस्मात्स्वशाखोक्तप्रकारिकोपासनायामेव सर्वेषामधिकार।त्तयैव ब्रह्मविज्ञानं भवति । तैत्तिरीयाणां वाजसनेयिप्रभृतीनां १५ चाग्निष्टोमसंपत्त्या । स्वर्ग इव प्रकृते ब्रह्मैक्यात्तत्तद्विज्ञानं ब्रह्मविज्ञानमेव । नहिं रूपरसगन्धादिमत्यां भुवि पुरुषभेदेन कस्यैव चैकैकप्रकारकं यद्धज्ञानं न तद्भू ज्ञानम् । एतेनान्तधर्मवत्त्वं ब्रह्माणि ज्ञापितम् । तदुक्तम् परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ( श्वे. ६/८ ) इति । अत्र स्वाभाविकीति विशेषणादविद्याकल्पितत्वं शक्तीनां निरस्तम् । २० केचित्त्वार्थवणिकानां विद्यां प्रति शिरोव्रतापेक्षणादन्येषां तदनपेक्षणाद् विद्याभेद इति प्राप्त उच्यते । स्वाध्यायस्यैष धर्मो न विद्यायाः । कथमिंदमवगम्यते यतस्तथात्वेन स्वाध्यायधर्मत्वेन समाचारे वेदव्रतोपदेशनपरे ग्रन्थ आथर्वणिका इदमपि वेदव्रतत्वेन समामनन्ति - नैतदचीर्णवतोधी ( मुं. ३ |२| ११ ) इति चाधिकृतविषयादेतच्छन्दाच्च स्वोपनिषदध्यय
1
7 - ख reads फलत्वस्यै for फलकत्वस्य 16- A and C read वैकैक for चैकैक ।
-