________________
२१०
अ. 3 पा. 3 सू..] अणुभाष्यम् । तु रूपान्तरोपासनप्रकरणोक्ता साधारणधर्मत्वेनापि । तथा सति मत्स्योपासकस्य चापशरादिकमपि भावनीयं स्यात् । पुरुषरूपोपासकस्य च लक्षयोजनायामशृङ्गादिकम् । नन्वाथर्वणोपनिषत्सु श्रीरामोपासनायां-यो वै ये मत्स्यकर्माद्यवतास भूर्भुवःसुवस्तस्मै वै नमो नमः ( रा. ता. ५) ५ इति वाक्येन तदितरावताररूपत्वमुच्यते । तेन तद्धर्मत्वमप्याक्षिप्यते । 'सत्यमाक्षिप्यते तद्धर्मवत्त्वम् । तत्रायमभिसंधिः । परमकाष्ठापन्नं ब्रह्मस्वरूपमिदमिति ज्ञात्वा [पासना कार्या । तेनैतस्यैवान्येवतारास्तत्तद्रूपेण तानि तानि कर्माण्ययमेव कृतवानिति ज्ञेयं परम् ।
न तु तस्मिन्नेव रूपेन्यावतारधर्मवत्त्वमपीति । तथा च तस्मिंस्तस्मिन्नव१० तारे तत्तद्धर्मवानिति श्रुत्या बोध्यते । न तु सर्वत्रापि । तत्र बाधकमुक्त
मेव । प्राणाद्युपासनास्वेतावान् विशेषो यथा कर्मण्यतिरेके प्रायश्चित्तश्रवणं बाधकम् । श्रीरामस्वरूपाद्युपासनासु च तेनावतारेणाकृतकर्मणस्तत्र भावनेपराधो बाधको-योन्यथा सन्तमात्मानम् इत्यादिवाक्यं च।
न तथा प्राणायुपासनास्वधिकगुणस्येतरत्रोपसंहारे किंचिद् बाधकं दृश्यत १५ इति स कर्तुं शक्यत इति ।
ननु पुरुषादिरूपस्य विग्रहस्यैव शुद्धब्रह्मत्वादयमेधावतारान्तरेष्वपि लीलाकर्तेति ज्ञानमनुपपन्नमिति चेत् मैवम् । धर्मिग्राहकमानेनैकस्यैव शुद्धस्यैवानन्तरूपत्वेन सिद्धत्वात् । वस्तुन एव तथात्वान्न काचि
च्छङ्का । यथैकस्यैवान्योन्याभावस्यानन्तभावप्रतियोगिकतद्रूपत्वं तावत्प्रति२. योगिकात्यन्ताभावरूपत्वं चाभावप्रतियोगिकान्योन्याभावात्यन्ताभावरूपत्वं
चाभावाभावरूपत्वेप्यभावरूपत्वमेव चाङ्गीक्रियते । तथेहाप्यस्तु । अभावत्त्वस्याप्ययोजकत्वात् । धर्मियाहकमानस्यैव तथात्वात् । तच्च तैत्तिरीयोपनिषत्सु । अतः परं नान्यदणीयस हि । परात्परं यन्महतो महान्तम् । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् (तै. म. ना. १।५)
10-A and Cread सर्वत्रेति for सर्वत्रापि । 16-B reads सत्कर्तुं for स कर्तुं । 18-C reads वस्तुत एव for वस्तुन एव ।