________________
२०९ १सर्ववेदान्तप्रत्ययाधिकरणम् । [अ. 3 पा. 3 स्. . नात् । अन्यथातिप्रसंगात् । इयं तूपासनामार्गीया व्यवस्थोक्ता । भक्तिमार्गीया त्वेतद्विलक्षणा साग्रे वाच्येति ॥ ३२ ॥
नन्वग्निष्टोममेवोद्दिश्य यावन्तो धर्मास्तैत्तिरीयके पठ्यन्ते तावन्तो वाजसनेयके । तथा च त्वदुक्तरीत्या वाजसनेयिनां तद्धोपसंहा५ रोपि न्याय्यो भवेन्न त्वेवं सः । शिष्टाचारादिविरोधात् । तथा पञ्चाग्निविद्यामधिकृत्योत्तोपि षष्ठीग्निर्न छन्दागैः शक्यत उपसंहर्तुम् । तथैवाथर्वणिकै कस्मिन् रूपे रूपान्तरधर्मा इति प्राप्त उत्तरं पठति । स्वाध्यायस्य तथात्वेन समाचारेधिकाराच्च सववच्च
तनियमः ॥३॥३॥ स्वाध्यायो वेदः स एकमेव कर्म शाखाभेदेन भिन्नभिन्नप्रकारक बोधयतीति तत्प्रयुक्तः सम्यग्भूतेग्निष्टोमादिलक्षण आचारे तत्तदङ्गाचारनियमोन्यूनानधिककरणलक्षण इत्यर्थः । तावद्भिरेवाङ्गैर्यागसंपत्तेरधिककरणस्याप्रयोजकत्वात्तावतामेवाङ्गानां करणम् । ननूक्तं तद्धर्माणामप्युपसंहारस्त्वदुक्तरीत्या संभवतीत्यत आह। अधिकारादिति । सर्वेषां शाखिनां स्वस्व१५ शाखोक्तकर्मण्येवाधिकारो न परशाखोक्तेप्यतोपि तथा नियमः । चकारा
स्वशाखोक्तात् कर्मणोतिरिक्ततत्करणे न्यूनकरणे च यदस्य कर्मण इत्यादि प्रायश्चित्तश्रवणमपि तन्नियमे हेतुः समुच्चीयते । अत एव क्वचित्परशाखोक्तमपि व्यवस्थितविकल्पविषयत्वेन कल्पसूत्र उच्यते । विकल्पे तुभयस्या
शास्त्रार्थत्वमुपसंहारे तूभयस्यापि शास्त्रार्थत्वमतोपि नात्रोपसंहारशङ्का । २. अत्र दृष्टान्तमाह । सववदिति । यथा सवा होमाः सप्तसूर्यादयः शतौदनपर्यन्ता वेदान्तरोदितत्रेताग्नयनभिसंबन्धादथर्वणोदितैकाग्निसंबन्धाच्चाथर्वणिकानामेव कार्यत्वेन नियम्यन्ते । तथा तत्तच्छाखायास्तथात्वात्तत्तदुक्त एव कर्मणि तत्तच्छाखिनामधिकाराच्च स्वस्वशाखोक्तादन्यूनानतिरिक्तकर्म
करणनियम इत्यर्थः । प्रकृतेपि यद्रूपोपासनाप्रकरणे यावन्तो धर्मा उक्ता२५ स्तस्मिन् रूपे तावद्धर्मवत्त्वेनैवोपासना कार्या तद्बोधकप्रमाणानुरोधात् । न
1-ख reads उपासन for उपासना। 3-A reuds न तावन्तो for तावन्ती ।
• २७ [ अणभाग्य