________________
भ. पा. सू..] अणुमाष्यम् ।
२०८ वेदान्तैः प्रत्ययो ज्ञानं यस्य तत्तथा। ब्रह्मणोनन्तरूपत्वे यानि यानि रूपाणि विविधैर्जीवरुपासितुं शक्यानि तानि तानि रूपाणि तैस्तैर्वेदान्तैर्निरूप्यन्त इति तावद्रूपात्मकमेकमेव ब्रह्मेत्यर्थः । तत्र हेतुश्चोदनाद्यविशेषादिति । चोद्यते कर्तव्यत्वेन बोध्यतेनेनेति चोदना विधिवाक्य५ मिति यावत् । तस्याविशेषादित्यर्थः । यथैकस्मिन्नग्निष्टोमे शाखाभेदेपि चोदना तथैव भवति-अग्निष्टोमेन यजेत् ( आ. सू. १०।२।१ ) इति । तथेहापि सर्वेषु वेदान्तेषु ब्रह्मत्वेनैवोपासना विधीयते इति तथा । आदिपदात्साक्षात्परंपराभेदेन मोक्षफलकत्वकथनमप्युपासनानामविशिष्टमिति प्रयोजनसंयोगः संगृह्यते ॥ ३॥३॥१॥
भेदान्नेति चेदेकस्यामपि ॥ ३॥३२॥
ननु द्रव्यदेवताभेदाद यागभेदवदुपास्यानां धर्मभेदेन भिथोभेदादुक्तहत्त्वसिद्धिं भेदान्नेति चेदित्यनेनाशङ्कय तत्परिहारमाह सूत्रकार एकस्यामपीति सूत्रावयवेन । यथैकस्यामपि गृहीतषोडशिकायामतिरात्रव्यक्ता •
वगृहीतषोडशिकायाः सकाशाद् गुणाधिक्येपि नातिरात्रभिन्नयागत्वम् । १५ अतिरात्रलक्षणकर्मैवाधिकृत्य तद्ग्रहणाग्रहणयोर्विधानादेवमिहापि ब्रह्मै
वाधिकृत्य तत्तद्धर्मवैशिष्ट्यावैशिष्ट्ययोरुक्तत्वान्न ब्रह्मोपासनभिन्नत्वमुपासनासु । तथा च ब्रह्मधर्मत्वेनाभेदस्य विवक्षितत्वात्त्वदुक्तहेत्वसिद्धिः । एवं सति यत्रैकस्मिन्नुपास्ये रूपेन्यस्माद्रूपादधिका गुणा उच्यन्ते । तत्र
तेषामुपसंहार उचित इति भाषः। अत्रायं विशेषो ज्ञेयः। उपासनाविषये२० वखिलेष्वविशिष्टं ब्रह्मत्वं ज्ञात्वैतेष्वेकतरं रूपं य उपास्ते तस्य तत्र सर्वे गुणा उपसंहर्तुमुचिताः । यस्त्वनन्तेषु विभूतिरूपेषु ॐ इत्येतदक्षरं ब्रह्म इति ज्ञात्वोपास्ते तस्य शाखान्तरीया अप्येतदक्षरोपासनप्रकरणोक्ता एवोपसंहर्तव्या नान्ये । तद्रूपमधिकृत्यैव तेषां गुणानां कथ
8-ख reads फलककथन for फलकत्वकथन । IO-C reads चेनैकस्यामपि for चेदेकस्यामपि । 20-ख reads अविशिष्टब्रह्मत्वं for अविशिष्टं ब्रह्मत्वं ।