________________
२०७
१ सर्ववेदान्तप्रत्ययाधिकरणम्। [अ. पा. ३ . १
3
यिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमन्यमग्निं पठन्ति । तस्याग्निरेवाग्निरिति । छन्दोगास्तु पञ्चसंख्ययैवोपसंहरन्तिं । अथ य एतानेवं पञ्चाश्नीन् वेद ( छां. ५/१०/१० ) इति । तथा प्राणसंवादे मुख्यप्राणादन्यांश्चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि पठन्ति । वाजसनेयिनस्तु तमिमं पञ्चमं ५ पठन्ति । अपरं च । अथर्वोपनिषत्सु क्वचिद् गोकुलवृन्दाकानन संचरद्गोपरूपमनल्पकल्पद्रुमप्रसूनविरचितविचित्रस्थलीककालिन्दीसलिलकल्लोल
1
संगिमृदुतरपवनचलदलकविराजमानगण्डमण्डलद्युतिमण्डित कुण्डलप्रभानुभावितवामांसमिलन्मूर्धन्यमहामणिकमुरलिकामुखावलीमिलदतितरल कर
कमलयुगलाङ्गुलीवशंवदविविधस्वरमूर्च्छनामोहितव्रजवर नितम्बिनीकदम्ब
•• कटाक्षकुवलयार्चितं क्वचित्कोदण्डमण्डितभुजदण्डखण्डितप्रचण्डदशमुण्डमतिविचित्रचरित्राभिरामं रामस्वरूपं क्वचिदतिकरालवदनवित्रासितकमडाकमलासन वृषभासनादिकं नृकेसरिरूपं क्वचिदुरुक्रमादिकं च निरूप्यते । तथा च द्रव्यदेवताभेदाद् यागभेदवद्धर्माणामावापोद्वापाभ्यां दृष्टादृष्टफलभेदाच्च वेद्यभेदे प्राप्ते ब्रह्मानेकत्वापत्तौ श्रुतिविरोधाद् विनिगमकाभावात्सर्वेषा१५ मुपासनाविषयाणामब्रह्मत्वमापतितम् । ननुपासनाविषयाणामोपाधिकत्वात् तेषां चाविद्याकल्पितत्वात् तद्विशिष्टानां तथात्वं युक्तमेव । न चैवं तन्निरूपकाणां वेदान्तानामब्रह्मपरत्वप्रसंग: । शुद्धस्य ब्रह्मणो दुर्ज्ञेयत्वेनीपाधिविशिष्टोपासनया चित्तशुद्धौ सत्यां स्वत एव तज्ज्ञानं भविष्यतीत्येतत्तात्पर्यकत्वादिति चेत् । मैवम् । समन्वयविरोधापत्तेः । तासां ब्रह्म२० विद्यात्वहानेश्च । श्रुतेः प्रतारकत्वापत्तेश्च । अपरं च -योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा इत्यन्यथाज्ञानं निन्दन्ती श्रुतिः कथं फलसाधकत्वेन तदुपासनां वदेत् । स्पष्टार्थानां श्रुतिवाक्यानां निर्णयमकृत्वा संदिग्धार्थानां ज्योतिराकाशादिशब्दानां तद्वाचकत्वं न निर्णीयाद् व्यासः । एवं च १५ सत्युक्तरीत्या यागवत्तेषां परस्परं भेदश्वावश्यक इत्युभयतः पाशा रज्जुरिति प्राप्तेभिधीयते । सर्ववेदान्तप्रत्ययम् । अनेकरूपनिरूपकैः सर्व
9. C reads व्रजरत्न for व्रजवर and a reads व्रजनर for the same.