________________
अ. ३ पा. २ सु. ४१ ]
१०
अणुभाष्यम् ।
पूर्वं तु बादरायणो हेतुव्यपदेशात् || ३ |२| ४१ ॥
तुशब्दः पूर्वपक्षव्युदासार्थः । बादरायणस्त्वाचार्य इतः पूर्वोक्तमीश्वरमेव फलदत्वेन मनुते । कुतः । हेतुव्यपदेशात् । हेतुत्वेन श्रुतौ व्यपदेशादित्यर्थः । एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य ५ उन्निनीषंत । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते ( कौ. ३1९ ) इति श्रुतौ न केवलं कर्मकारयितृत्वमुच्यतेपि तु फलदित्सया तथात्वमतः फलदत्वमीश्वरस्यैव व्यपदिष्टं भवतीति नानुपपत्तिः काचित् । नन्वीश्वरस्य स्वतः फलदाने समर्थस्य फलदित्सायां सत्यां कर्मकारणे को हेतु: । कार्यवैचित्र्यं च कथमित्यादि चोद्यं - कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्ध वैयर्थ्यादिभ्यः (ब्र सू. २/३।४२ ) इत्यत्र निरस्तम् । विद्वन्मण्डने श्रीविठ्ठलेन च । अतः सकामैरपि स एव भजनीयो नान्य इति सिद्धम् ||३|२|४१॥११॥ इति श्रीवेदव्यास मतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ ३२ ॥
२०६
तृतीयाध्याये तृतीयः पादः । १ सर्ववेदान्तप्रत्ययाधिकरणम् । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् || ३ | ३|१ ॥ पूर्वपादे जडजीवधर्मनिराकरणेन शुद्धस्यैव सच्चिदानन्दविग्रहरूपत्वं ब्रह्मणो निरूपितम्। इह तु ब्रह्मगता एव धर्मा विचार्यन्ते । ते चेदेकस्मिन् वाक्य एव सर्वे पठिता भवेयुस्तदा न विचारणीया भवेयुर्विरोधाभावात् । २० पठिताश्च तत्तदुपासनप्रकरणेषु क्वचित्त एव क्वचिद्भिन्नाः । यथा वाजसने
१५
-( reads फलदानसमर्थस्य for फलदाने समर्थस्य ।
8- Bom. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धवैियर्थ्यादिभ्य इत्यs after चोद्यं ।
17- A and C read शुद्ध for शुद्धस्यैव ।
18-C reads ब्रह्मण एव for ब्रह्मगता एव ।