________________
११ फलमत इत्यधिकरणम् । [4.341.24.ro
पूर्वसूत्रेण श्रुतमीशितृत्वं फलदान उपपत्तित्वेन निरूपितम् । इह तु साक्षाच्छ्रतिमेव फलदातृत्ववाचिकां प्रमाणयति । सा च स वा एष महानज आत्मान्नादो वसुदान: (बृ. ४|४|२४ ) इत्यादिरूपा । चकारात् सुखं दुःखं भवो भावः (भ.गी. १० । ४ ) इत्युपक्रम्य ५ भवन्ति भावा भूतानां मत्त एव पृथग्विधाः (भ.गी. १०/५ ) इत्यादिरूपा स्मृतिः संगृह्यते ॥ ३।२ ३९ ॥
धर्मे जैमिनिरत एव ॥ ३।२।४० ॥
२०५
अत्र कर्मवादी प्रत्यवतिष्ठते । ननु कर्मण एव फलमिति पक्षेप्युपपत्तिश्रवणे तुल्ये । तथाही श्वरवादिनापि कर्मनिरपेक्षेण तेन फलमिति १० न वक्तुं शक्यम् । विधिवैयर्थ्यप्रवृत्त्यनुपपत्तिप्रसंगाभ्याम् । तत्सापेक्षत्वे तदेवास्तु कृतं तत्सापेक्षेण तेन । न चाचेतनं चेतनाधिष्ठितमेव कार्यक्षम - मिति केवलेन तेन न फलं संभवतीति वाच्यम् । कर्मस्वरूपं स्वर्गादिकं च न लोकसिद्धम् । किंतु श्रुतिसिद्धम् । तत्र च स्वर्गादिफलसाधकत्वेनैवोत्पत्तिवाक्येष्वर्थवादेषु च - अग्निष्टोमेन स्वर्गकामो यजेत ( आ. १५ सू. १०।२।१) अग्निहोत्रं जुहोति प्रजाकामः । इत्यादि । दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत । परमेष्ठिनो वा एष यज्ञोग्र आसीत् तेन स परमां काष्ठामगच्छत् ( तै. सं. १/६/९ ) इत्यादिषु कर्म श्रूयते । स च तत्साध्यत्वेनैव । एवं सति लोकेन्यथा दर्शनेपि धर्मिग्राहकप्रमाणेन तथैव सिद्धत्वान्नात्र काचन शङ्का । ईश्वरवादिनो १० नित्यज्ञानादिमत्त्व इव । आमुष्मिकफलत्वेन तत्प्रतिबन्धकापगमे भवतीत्यावयोस्तुल्यम् । तस्याशुतरविनाशित्वेपि श्रुतिसिद्धकारणतानि - वहाय तद्व्यापारोपूर्वं कल्प्यते । अविषमादीश्वराद् विषमफलोत्पत्यनुपपत्तिर्वैषम्यनैर्धृण्ये च स्याताम् । अतः कर्मण एव फलमिति जैमिनिर्मनुते ॥ ३।२।४० ॥
2- A om. तु after इह ।
-ख om. अत्र before कर्मवादी ।
12- C reads फलासंभव इति for तेन न फलं संभवतीति ।