________________
अ. 3 पा, २ स. ३७] अणुभाग्यम् ।
२०४ निरासेनायामशब्दादिभ्यो व्यापकत्ववाचकश्रुतिवाक्यादिभ्यः साक्षात्सर्वगतत्वप्रतिपादकेभ्य एव सर्वगतत्वं सिध्यति । न तु गौतमीयानामिव कर्तृत्वाद्यनुपपत्त्येत्यर्थः । ते च शब्दाः-आकाशवत्सर्वगतश्च नित्यः । ज्यायान्दिवो ज्यायानाकाशात् ( छां. ११४।३ ) वृक्ष इव १ स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे. ३९) इत्यादयः । आदिपदात् सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ( भ. गी. १३॥१३ ) इत्यादिस्मृतयः संगृह्यन्ते । अनेन ब्रह्मणि श्रुतिरेव मुख्यं प्रमाणम् । अनुमानं तु विलम्बोपस्थितिकत्वेन साध्यसिद्धिपराहतमपीच्छाविशेषेण जननीयं १० चेदभ्युच्चयमानं पर्यवसास्यतीति भावः ॥ ३।२।३७।१० ॥
११ फलमत इत्यधिकरणम् ।
फलमत उपपत्तेः॥ ३२॥३०॥ एवं सर्वोत्तमत्वनिरूपणेनोत्तमाधिकारिणां भजनीयत्वप्रयोजक रूपमुक्त्वा तदितराधिकारिणां तदाह । ते हि फलपेप्सव एव भजिष्यन्ति । १५ तच्च फलदातृत्व एव संभवतीति तदाह । अत ईश्वरादेव फलं
भवति यत्किंचिदैहिकं पारलौकिकं वा । कुतः । उपपत्तेः । सर्वस्य वशी सर्वस्येशानः (बृ. ४।४।२२) इति श्रुतिर्वस्तुमावेशित्वमसंकुचितमाह । न ह्यन्यस्य वस्त्वन्यो दातुं समर्थोतो भगवानेव तथेत्यर्थः ।
केचित्त्वत्रैव कर्मणस्तत्कार्यापूर्वस्य च फलदातृत्वमाशङ्क्य तत्रानुपपत्ति१. मत्रोपपत्तित्वेन व्याकुन्ति । तत्त्वग्रे जैमिनिमतोपन्यासस्वमतोपन्यासा
भ्यां व्यास एव व्यक्तीकरिष्यतीत्यधुनैवापामनिराकरणमग्रिमसूत्रद्वयवैयर्थ्यं स्यादिति चिन्त्यम् ॥ ३।२।३८ ॥
श्रुतत्वाच ॥३॥२॥३९॥
:-C rends एवं for एव ।