________________
२०३
१० परमतः सेतून्मानेत्यधिकरणम् । [ अ, 3 पा, २ सू. ३७
कालस्य यथोपाधिविशेषसंबन्धादुत्तरायणत्वाद्युत्तमधर्मवत्त्वं तद्विपरीतधमत्वं तथेत्यपि संगृह्यते ॥ ३॥२॥३४ ॥
उपपत्तेश्च ॥ १२॥३५॥ किंच । सत्यज्ञानाद्युक्तधर्मविशिष्टब्रह्मणोन्य उत्तमोस्तीति वदता ५ तत्रेत उत्कृष्टधर्मवत्त्वं वाच्यम् । तच्चाशक्यं प्रमाणाभावात् । साम्येपि तथा विशेषाभावोद्वैतश्रुतिविरोधश्च । तस्मादितः परस्यानुपपन्नत्वादुक्तरूपमेव परमकाष्ठापन्नं वस्त्वित्युपपद्यत इत्यर्थः ॥ ३२॥३५॥
___ तथान्यप्रतिषेधात् ॥ ३२॥३६॥ ___ यथा सेत्वादयः श्रुत्युक्तास्तथैव-न तत्समश्चाभ्यधिकश्च दृश्यते .. ( श्वे ६।८) इति श्रुत्यैव ततोधिकस्य प्रतिषेधात्त्वयाप्यस्मदुक्त एव मार्गानुसतव्य इत्यर्थः । अवतारकाले पूर्व स्वशक्त्याविर्भावमकृत्वा पश्चात्तदाविर्भावे कुतो लोकानां पूर्वावस्थातो भगवत्येवाधिक्यमिव प्रतीतं भवतीत्यभिप्रायेणान्यपदोपादानम् ॥ ३२॥३६ ॥ ... अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३२॥३७॥ 1 प्रकरणमुपसंहरन् फलितमर्थमाह । अनेन सेत्वादिव्यपदेशानां मुख्यार्थकत्वनिराकरणेन व्यापकत्वं ब्रह्मणः सिद्धमित्यर्थ इति केचित् । तन्न । जन्माद्यस्य यत इत्यादिना सर्वदेशगतकार्यकर्तृत्वमुक्तमिति तेनैव व्यापकत्वस्य सिद्धत्वात् । न चाविरोधसाधनप्रकरणत्वात् पूर्वसिद्धं
सर्वगतत्वमनेनोक्तग्रन्थेन कृत्वा सेत्वादिवाक्यैः सर्वमविरुद्धमित्यर्थमिति २. वाच्यम्। अग्रिमपदवैयर्थ्यापत्तेरिति चेत् । अत्रैवं ज्ञेयम् । नोक्तकर्तृत्वेन
व्यापकत्वमेकान्ततो ब्रह्मणि रोढुं शक्नोति । योगसिद्धदूरश्रवणादिवत्परिच्छिन्नेनाप्यनेकदेशगतकार्यकरणसामर्थ्यविशेषस्य वक्तुं शक्यत्वात् । अन्यथा पूर्वसिद्धव्यापकत्वविरोधेन सेत्वादिव्यपदेशैः परिच्छिन्नत्वेन ब्रह्मणोन्यस्य परत्वं न शङ्केत । विरोधपरिहाराय तु सामान्यात्त्वविरोध २५ इति वदेत् । तस्मादेवं सूत्रार्थो ज्ञेयः । अनेन ब्रह्मणोन्यस्य परत्व
--- ------ .. -..--.-.-.
2- reads तर्थत्यत्रापि tor तथेत्यपि ।