________________
म. 3 पा. २ सू. ३१] अणुभाग्यम् । यमिति वदेत् । अतो देशकालवस्तुस्वरूपपरिच्छेदाच्चतुर्विधपरिच्छेदरहितमन्यत् किंचिदस्तीति प्रतिपत्तव्यमित्येवं प्राप्तम् ॥ ३२॥३१॥
सामान्यातु ॥ ३॥२॥३२॥ तुशब्दः पक्षं व्यावर्तयति । समानस्य भावः सामान्यम् । सेत्वा५ काशादिशब्दास्तद्धर्मातिदेशार्थमुच्यन्ते न तु तद्गतं दोषमपि कल्पयन्ति । संसारसागरोत्तरणोपायत्वात्सेतुत्वं निर्लेपायाकाशत्वम् । कामादिभिदोहाय चतुष्पात्त्वम् । अमृतत्वाय षोडशकलत्वम् । अदुर्लभत्वाय संबन्धः । दिव्यत्वाय धर्मातिदेशः । कुण्डपायिनामयने मासामिहोत्रवद् गुणार्थ
मेव वचनम् न दोषार्थमिति न ततोन्यशङ्कोत्पादनीया। तस्मान्न १. पूर्वोक्ता दोषाः ॥ ३।२।३२ ॥
बुध्द्यर्थः पादवत् ॥ ३२॥३३॥ अन्यसमानधर्मवत्त्वं कुत्रोपयुज्यत इत्यत आह । बुध्द्यर्थः । तथा व्यपदेशो बुध्द्यर्थः । बुद्धिरेव प्रयोजनं यस्य । तथोपासनार्थमयुक्तमित्याश
क्य दृष्टान्तमाह । यथा भूतादीनां पादत्वज्ञानमुपासार्थं तथा तत्तद्गु१५ णत्त्वेन ज्ञानार्थं स्वधर्मप्रशंसार्थमेवमुच्यते ॥ ३।२।३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३॥२॥३४॥
ननु स एवायमित्यतिदेशेपि तथा बुद्धिः संपयेतैवेति व्यर्थों धर्मातिदेश इत्याशङ्कय तथोक्तेपि समानधर्मत्वज्ञानाभावे हेतुमाह ।
स्थानविशेषादिति । धर्मैक्येपि स्थानविशेषप्राप्त्या न समानधर्मत्त्वं दृश्यते। १. अन्यत्रापि न तथात्वमायास्यतीत्यतिदेशो धर्माणामपि कृत इत्यर्थः।
अस्मिन्नर्थे दृष्टान्तमाह । प्रकाशादिवदिति । यदादित्यगतं तेजः ( भ. गी. १५५१२) इति वाक्यादादित्यचन्द्राग्निगततेजसामैक्येपि न समानप्रकाशत्त्वं यथा तथात्रापीति ज्ञानसंभवादित्यर्थः। आदिपदादेकस्यैव
7-C reads अतिदुर्लभत्वाय for अदुर्लभत्वाय । 23-ख reads तथापीति for तथात्रापीति ।