________________
२०१ १० परमतः सेतून्मानेत्यधिकरणम् । [ अ. 3 प'. २१५.३१ देन धर्मिभेदे सिद्धे न पूर्वाधिकरणसिद्धान्तविरोधः । ननु समन्वयेन ब्रह्मत्वमुत्तरपादेनैक्यं पूर्वाधिकरणेनाविरोध इति व्यर्थमिदमधिकरणमिति
चेन्न । अर्थबलविचारोयं समन्वये चोत्तरपादे च शब्दबलविचारः। धर्मिविचारान पूर्वेण गतार्थत्वम् ।।
फलतः साधनेभ्यश्च प्रमेयाच प्रमाणतः । विचारेणाबृहत्तचेत् कोन्यः साधयितुं क्षमः ॥ ३८ ॥
अतो हेतून्बाधकानाह । एकदेशबाधकत्वात् तत्र फलतो बाधहेतुमाह । सेतुव्यपदेशात्-अथ य आत्मा स सेतुर्विधृतिः (छां. ८।४।१) इति
दहर उत्तरेभ्यः (ब. सू. १६३१४ ) इत्यत्र ब्रह्मत्वमस्य सिद्धम् । १० अथ य इहात्मानमनुविद्य व्रजन्ति (छां. ८।१।६) इत्युपक्रम्य-सर्वेषु
लोकेषु कामचारो भवति ( छां. ८।१।६ ) इत्युक्त्वा कामानुपपाद्याज्ञानव्यवधानं ज्ञानप्रशंसार्थमुक्त्वा ज्ञानानन्तरं संसारसंबन्धाभावाय सेतुत्वं वदति । पापाब्धितरणार्थं यश्च तरति तद्गताश्च दोषा गच्छन्तीति च । अतः संसारफलयोर्मध्ये विद्यमानत्वात्तीर्णस्यैव फलश्रवणात् फलरूपं वस्तु १५ किंचिदन्यदस्तीति ज्ञायते। निधित्वेन फलवचनमवान्तरफलपरं भविष्यति।
एतमानन्दमयमात्मानमुपसंक्रम्य (ते. २५) इत्यप्यत्रोदाहरणम् । तथोन्मानव्यपदेशात् । तत्रैव-यावान्वा अयमाकाशस्तावानेषोन्तर्हृदयआकाशः (छां. ८।१।३) इतिसाधनयुक्तिप्रश्न उन्मानेन परिच्छेदं निरूपयति । दृष्टान्तदा न्तिकत्वेन ज्ञानं साधनं तत्र बहिराकाशज्ञानमपि साधनं २० भवति । चतुष्पाच्च ब्रह्म भूतादिपादाश्च ज्ञातव्याः । तथा संबन्धव्यपदेशात् ।
तत्रैव प्रमेयनिरूपणप्रस्तावे-उभावप्यस्मिन् (छां. ८।१।३ ) इत्यादिनाधाराधेयसंबन्धो निरूपितः । अत्र च वस्तुपरिच्छेदो निरूपितः । प्राज्ञेनात्मना संपरिष्वक्तः (बृ. ४।३।२१) इति च । तथा भेदव्यपदेशात् ।
य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते। य एषोन्तरक्षिणि पुरुषो दृश्यते २५ ( छां. ११५) इत्यत्र स्थानद्वयस्थितयोः पुरुषयोः परस्परं धर्मातिदेशमाह । अक्षिस्थितनिरूपकमतिदेशः प्रमाणमिति । धर्म्यभेदे तु स एवा7-C reads बाधमाह for बाधहेतुमाह ।
२६ [ अणुभाष्य]