________________
अ. ३ पा. २ सू. २९ ]
अणुभाष्यम् ।
स्वरूपनिर्वाहार्थमवश्यं ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । तथासति एकमेवाद्वितीयम् ( छ. २/२/१ ) इति बाध: प्रसज्येत । तथा चोत्पत्त्या विचारे निर्द्धर्मकमेव पूर्वं ब्रह्मेति प्रतिपत्तव्यम् । उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्यः । तत्र धर्माणामपि ब्रह्मत्वे एकविज्ञानेन सर्वविज्ञान५ मुपपद्यते नान्यथा । ततश्च प्रथमं ब्रह्म स्वधर्मरूपेण भवति । तदनुक्रियादिरूपेण प्रपञ्चरूपेण च । तावतैव सर्ववेदार्थसिद्धेः । न च लौकिकी युक्तिस्तत्रापेक्ष्यते । येन तादृशस्य कथं सर्वभाव इति पर्ययोगो भवेत् । धर्मकल्पनायामपि - नैषा तर्केण मतिरापनया (क. १।२1१ ) इति समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं १० स्वसिद्धान्तः । एकदेशिनस्तद्विपरीतम् । उभयमपि सूत्रकारस्य संमतमिति ॥ ३।२।२९ ॥
/
1
प्रतिषेधाच्च || ३ |२| ३० ॥
एकदेशिमत उपपत्त्यन्तरमाह । एकमेवेत्युक्त्वा पुनरद्वितीयमिति द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषे१५ धमपिं सूचयति । ऐक्षतेति वचनात्तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृहीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् || ३|२|३०||९ ॥
२०
२००
१० परमतः सेतून्मानेत्यधिकरणम् ।
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः || ३| २|३१ ॥ धार्मधर्मविरोधः परिहृतः । धर्म्यन्तरविरोधपरिहारार्थमधिकरणमारभते । तत्र पूर्वपक्षमाह । परमतः । अतोपि ब्रह्मणः परमन्यदुत्कृष्टं फलमस्ति । तत्र वैदिकहेतवः । सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । यद्यपि समन्वय एवैते दोषाः परिहृतास्तथापि स्वरूपविरोधपरिहारप्रस्तावात्पुनरुच्यन्ते । सर्ववाक्यप्रतिपाद्यमेकमेवेत्यपि न सिद्धम् । एतैर्हेतुभिः परिच्छे
6-B om. प्रपञ्श्वरूपेण before च । 22- ख om. फलं after उत्कृष्टं ।