________________
९ प्रकाशाश्रयवद्वेत्यधिकरणम् । [अ. 3 पा. २ मू. २९
९ प्रकाशाश्रयवद्वेत्यधिकरणम् । प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ३॥२॥२८॥
धर्मरूपविचारेण पूर्वोक्तपक्षद्वयं स्थापयितुमधिकरणारम्भः। ननु धर्मा नाम के ब्रह्मणो भिन्नास्तकार्यरूपा आहोस्विद्ब्रह्मैवेति संशयः । तत्र लोके १ कार्यस्यैव पटरूपादेस्तद्धर्मत्वात्समवेतत्वात्तन्नित्यतायां प्रमाणाभावात्स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः-एकमेवाद्वितीयम् ( छां. ६।२।१ ) इति श्रुतिविरोधाच्च । धर्माः प्रपञ्चवत्कार्याः । तथा सति ब्रह्म सर्वकल्पनारहितमेव सेत्स्यतीत्येवं प्राप्ते ।
इदमुच्यते । प्रकाशाश्रयवदा । वाशब्दः पक्षं व्यावर्तयति । यथा "प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथकस्थित्यभावात् । समवेतत्वाञ्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव । भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् । कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पनैवं ब्रह्मधर्म
योरपि । न ह्यन्यथा वेदे प्रवृत्तिनिषेधशेषता सत्यज्ञानानन्तानन्दपदानां १५ सामानाधिकरण्यं वा संभवति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो
विशिष्टपदार्थ एव तादृशो वेदसिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् तेजःशब्दवाच्यत्वात् । बहुदूरव्याप्त्यर्थमेव हेतुरुक्तः । आतपादेर्धर्मत्वेन धर्मित्वेन च प्रतीतेः । अपूर्ववदेव दृष्टत्वाच्छ्रतत्वाच्च न धर्मेष्वपि युक्त्यपेक्षा । तस्मात् सिद्धं यथाश्रुतमेव ब्रह्मेति ॥ ३।२।२८ ॥
पूर्ववद्वा ॥ ३२॥२९॥ एकदेशिमतेनापि सर्वसमाधानमाह । अथवा-अरूपवदेव हि - ( ब्र. सू. ३।२।१४ ) इत्यादिपञ्चसूत्र्या यः सिद्धान्तः कथितस्तादृशं
वा ब्रह्म प्रतिपत्तव्यम् । . अयमाशयः। वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथाक्षरमात्र२५ स्यापि बाधो न भवति तथा वक्तव्यम्। यदर्थमुभयरूपताङ्गीकृता तत्र धर्माणां | 6-ख reads धर्मत्वात् for तद्धर्मत्वात् ।
14-A and Oroad वेदप्रवृत्तिः for घेदे प्रवृत्तिः। 16-ख reads हेतुरतः for हेतुः।
२०