________________
अणुभाष्यम् ।
अतोनन्तेन तथाहि लिङ्गम् ॥ ३।२।२६ ॥
फलितमाह । अतः - अभ्यासादनन्तरूपेणाविर्भावः । न ह्येकं वस्तु प्रतिक्षणमन्यादृशं भवति निमित्तभेदव्यतिरेकेण । क्वचिद्भक्तकामश्व निमित्तत्वेन प्रतीयते । नहि निमित्तभेदेन जायमानं वस्तु भवति । ५ किंतु तथा सति लिङ्गं विग्रह एव भवति । युक्तश्चायमर्थः । यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपु: प्रणय से सदनुग्रहाय ( भा. ३/९/१२ ) इति । अत: श्रुत्या प्रत्यक्षेण वा तथा निर्णयः कर्तुं शक्यः । तस्मात्सर्वा - गोचरमेव ब्रह्मेत्येवं प्राप्तम् || ३।२।२६ ॥
अ. ३ पा. २ सू. २६ ]
ܙ
१९८
उभयव्यपदेशात्त्वहि कुण्डलवत् ॥ ३।२।२७ ॥
तुशब्दः पक्षं व्यावर्तयति । केवलयुक्त्या लोकदृष्टान्तेन निर्णय: शक्यते कर्तुम् । अन्यथेदं शास्त्रं व्यर्थमेव स्यात् । अत्र हि वेदादेव ब्रह्मस्वरूपज्ञानम् । तत्कथं स्वरूपशक्त्या निर्णय: । ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभयरूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथमेकं वस्त्वनेकधा भासते । तत्राह । अहिकु१५ ण्डलवत् । यथा सर्प ऋजुरनेकाकारः कुण्डलश्च भवति तथा ब्रह्मस्वरूर्पं सर्वप्रकारं भक्तेच्छया तथा स्फुरति । कल्पनाशास्त्रे हीदं बाधकम् । अनेककल्पनागौरवं चेति । न तु केवलं श्रुत्येकसमधिगम्ये । न च शास्त्रवैफल्यम् । एवं साधनार्थत्वात् । अत्रैव हि सुरिव्यामोहादन्यशास्त्रोत्पत्तिः । अतः सर्वविरुद्धधर्माणामाश्रयो भगवान् । न हि प्रमाणश्रुतदृष्टेनुपपत्ति१० रस्ति यदर्थं युक्त्यपेक्षा । लोकेपि शरीरान्तःकरणादीनि परस्परविरुद्धदयामारकत्वादीन विषयभेदेनै कस्मिन्नपि क्षणे प्रतीयन्ते । तस्मात्सकलविरुद्धधर्मा भगवत्येव वर्तन्त इति न कापि श्रुतिरुपचरितार्थेति सिद्धम् || ३|२|२७|| ८ ॥
1
J4-A om. रूपेण before व्यपदेशात् ।
18 - ख reads अन्यथा for अन्य |
·