________________
१९७
८ प्रकाशादिवश्चेत्यधिकरणम् । [ अ. पा. २ सू. २५
११।५४ ) इति । द्विविधमपि रूपं दृश्यते । ततस्तु तं पश्यते निष्कलं ध्यायमानः (मुं. ३।१।८) अनेक बाहूदरवत्रनेत्रं पश्यामि त्वां सर्वतोनन्तरूपम् (भ.गी. ११।१६ ) इति । संराधकस्य स्वानुभवो ध्रुवादीनामनुमापकत्वं च । तस्मात्प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यां वा ब्रह्म साकार५ मनन्तगुणपरिपूर्ण वेति नाव्यक्तमेवेति निश्चयः । अतो लौकिकालौकिकप्रत्यक्षविषयत्वादुभयवाक्यार्थरूपमपि ब्रह्म || ३|२| २४ ॥ ७ ॥
30
८ प्रकाशादिवच्चेत्यधिकरणम् । प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥३।२।२५ ॥ पुनः प्रकारान्तरेण पूर्वोक्तमेव स्थिरीकर्तुमधिकरणान्तरमारभते । १० सूत्रद्वयेन पूर्वपक्षद्वयमाह । ननु प्रत्यक्षानुरोधेनोभयविधवाक्यसमाधानं नोपपद्यते । वस्तुशक्त्यैव निर्णय उचितः । नतु श्रुतिप्रत्यक्षाभ्याम् । यथा प्रकाशजलसुवर्णादीनामनेकविधत्वं नाङ्गीक्रियते । सूर्यचन्द्रमणिप्रकाशादिषूष्णशीतानुभवरूपस्पर्शाः प्रतीयन्ते । न हि तेजसि तावन्तः स्पर्शा अङ्गीक्रियन्ते । जले च हिमतप्तकुण्डादिषु । तथा सुवर्णे वर्णभेदाः । न हि १५ सर्वे स्वाभाविकाः । तेजस्त्वादिस्वभावहानिप्रसंगात् । तथा ब्रह्मणोप्यवैशेष्यमङ्गीकर्तव्यम् । निर्विशेषं हि ब्रह्मेति सर्वप्रसिद्धिः । चकारादेवं साधकाः-अगृह्यो न हि गृह्यते ( बृ. ३।९।२६ ) इत्येवमादयः । ननूक्तं भक्तस्य तथा साक्षात्कारात्तादृशश्रुतेश्च नैकविधत्वमङ्गीकर्तुं शक्यत इति । नैष दोषः । प्रकाशश्व कर्मणि तपःप्रणिधानादिकर्मणि भगवतः २० प्रकाशः । तत्र तेषां कामस्तथा प्रकटीभवति । चकारादप्रकाशान्यथाप्रकाशौ । तत्र हेतुः । अभ्यासादावृत्तेः । यद्येकवारं प्रकटः स्यात्तदा तद्रूपत्व1 मङ्गीक्रियेतापि । प्रतिभक्तं प्रतिकर्म चाविर्भावः । अतः प्रकाशोपि कृत्रिम एव । दीपप्रकाशवत् । अत्यथा सर्वदा स्यात् । तस्मान्न भक्तप्रत्यक्षेण निर्णयः || ३|२| २५ ॥
1
3-ख reads सधिकस्य for संराधकस्य । 21-C reads तदा तदा for तदा ।