________________
25. 3 91. 2. 23]
अणुभाष्यम् ।
७ तदव्यक्तमाह हीत्यधिकरणम् । तदव्यक्तमाह हि ||३|२|२३||
१९६
1
शब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिकरणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । न ५ चक्षुषा गृह्यते ( मुं. ३|१|८ ) कश्विद्वीरः प्रत्यगात्मानमैक्षत् ( क. २|४|१ ) नापि वाचा ( मुं. ३|१| ८ ) सर्वे वेदा यत्पदमामनन्ति ( क. १/२/१५ ) अप्राप्य मनसा सह ( तै. २/९ ) मनसैवेदमाप्तव्यम् ( क. ४।११ ) अस्पर्शमगन्धमरसम् ( क. ३।१५ ) सर्वरूपः सर्वगन्धः सर्वरस: ( छां. ३।१४ २ ) अपाणिपादः (श्व. ३। १० १९ ) इत्यादि । विश्वतश्वक्षः (ऋ. सं. १०/८१/३ ) इत्यादि । निर्गुणश्च । यः सर्वज्ञः सर्वशक्ति: ( छां. ३ | १४ | २ ) इत्यादि विरु द्धवाक्यानि । न हि वस्तु द्विरूपं संभवति । वांक्षद्वयमपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यमन्यस्योपचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते । तत्र पूर्वपक्षमाह । १५ तदव्यक्तम् । तद्ब्रह्माव्यक्तमेव भवितुमर्हति । कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । नेति नेत्यात्मा । अगृह्यो न हि गृह्यते (बृ. ३/९/२६ ) नहि गृह्यत इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात्सर्वधर्मवत्त्वेन प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् || ३/२/२३ ॥
१०
अपि संराधने प्रत्यक्षानुमानाभ्याम् || ३।२।२४ ॥
अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । श्रद्धाभक्तिध्यानयोगादवेहि (कै. १२ ) । यमेवैष वृणुते तेन लभ्यः ( मुं. ३ २/३ ) भक्त्या त्वनन्यया ३५ शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप (भ.गी.
23- A and C read ज्ञान for ध्यान ।