________________
६ अम्बुवदग्रहणादित्यधिकरणम् । [ अ. पा. २ सू. २२ अन्यानुविधायित्वेपि स्वधर्मा एव ते । कारणत्वादिवत् । न चागन्तुकत्वात्तद्धर्मा एव न भवन्तीति वाच्यम् । अन्यधर्मत्वे प्रमाणाभावात् । तद्गतत्वप्रतीतेश्च दृष्टत्वाच्चाविरोधः । अविरोधप्रकारोयम् । ग्रंथोभयसामञ्जस्यं भवति प्रकारोपि तस्यैव तथा वक्तव्यः । तस्माद्यथाकाशस्य वृद्धि-हास५ भाक्त्वं करकादिष्वन्तर्भावात्तथैवोभयसामञ्जस्यादेवं ब्रह्मापि वृद्धि-हासपदेन शरीर आकाशजीवयोरकमुदाहरणं बोधयति ॥ ३२२० ॥ दर्शनाच्च || ३ |२| २१ ॥
हेत्वन्तरमाह । भगवति सर्वे विरुद्धधर्मा दृश्यन्ते । न हि दृष्टनुपपन्नं नाम व्याघातात् । तादृशमेव तदस्त्विति त्वध्यवसायः प्रामा१० णिकः । चकारादुलूखलबन्धनादिप्रत्यक्षमेवोभयसाधकं दृष्टमिति । अथो अमुष्यैव ममार्भकस्य ( भा. १०/८/४० ) इति च । तस्माच्छ्रतिप्रत्यक्षैः सर्वविरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेर्न विरोधः || ३।२।२१ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ३२॥२२॥ परमार्थतो विरोधं परिहृत्य युक्त्यापि प्रतिषेधति । ननु सर्व १५ विशेषधर्माणामस्थूलादिवाक्यैर्निषेधात् कथमविरोधः प्रत्येतव्य इति चेत्तत्राह । नैतावत्त्वं हि प्रतिषेधति । प्रकृते यदेतावत् परिदृश्यमाना यावन्तः पदार्था लौकिकास्तेषामेव धर्मान् निषेधति । प्रतीतस्यैव हि निषेधात् । अतो जगद्वैलक्षण्यमेवास्थूलादिवाक्यैः प्रतिपाद्यते न तु वेदोक्ता ब्रह्मधर्मा निषेद्धुं शक्यन्ते । कुत एतदवगम्यते तत्राह । ततो ब्रवीति न भूयः । यत्रैव वाक्ये पूर्वं निषेधति तास्मन्नेव वाक्ये पुनस्तमेव विधत्ते । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् ( तै. २/९ ) इति । तथास्थूलवाक्येपि–एतस्यैव प्रशासने (बृ. ३/८/ ९ ) एतद्विदित्वा ( बृ. ३/८/१० ) आकाश ओतश्व प्रोतश्व ( बृ. ३|८|११ ) इति । चकारादेकवाक्योपाख्यानभेदौ संगृहीतौ । सर्वत्र लौकिकं २५ प्रतिषेधत्यलौकिकं विधत्त इति युक्त्या निर्णयः । तस्माद् युक्त्याप्यविरोधः || ३|२|२२॥६॥
२०
1
१९५
1- A reads न त्वागन्तुकत्वात् for न चागन्तुकत्वात् ।