________________
अ. ३. २ सू. १८ ]
अणुभाष्यम् ।
१९४
इति । यथेतरसंश्लिष्टस्योपमानत्वमेवं समः पुंषिणा (बृ. १ ३२२ ) इत्यपि । चकारस्तु विरोधाभावो वक्तव्योधिकरणं च संपूर्णमेकदेशिन इति सूचयति । तस्माज्जड जीवधर्माणां भगवत्युपचारः । निषेधस्तु मुख्य इति ॥ ३।२।१८ ॥ ५॥
६ अम्बुवदग्रहणादित्यधिकरणम् ।
अम्बुवदग्रहणात्तु न तथात्वम् || ३ |२| १९ ॥
मुख्यसिद्धान्तं वक्तुमेकदेशिनं दूषयति । तुशब्दस्तथा सिद्धान्तं व्यावर्तयति । तथात्वं समवायातिरिक्तस्य तद्धर्मयोगात् । जडजीवधर्मयोगात्सर्वकामत्वादयो न भवन्ति । कुतः । अम्बुवदग्रहणात् । सर्वपरस्य हि १० प्रतिबिम्बेधिकरणधर्मवत्त्वम् । तत्र रूपरहितं तत्र विद्यमानं च न प्रतिबिम्वत इति वक्तव्यम् । तथापि स्वमतविरोधादम्बवदग्रहणमिति । स्वच्छमम्बु प्रतिबिम्बं गृहाति । न हि तथा धर्मा गृहीतुं शक्नुवन्ति । धर्मत्वाच्च । सर्वाधारत्वेन तथोच्यमाने वैयर्थ्यमिति पूर्वमवोचाम ।
नच भ्रमात्कल्पनं वेदेनोच्यते । अप्रतारकत्वात् सर्वज्ञत्वाच्च । १५ विप्लववादिन एव एवं वचनं न वैदिकस्य । पृथिव्यां तिष्ठन् (बृ. ३।७/३ ) इत्यादिविरोधश्व । तस्माद्ब्रह्मधर्मा एव सर्वकामादयो न तूपाधिसंबन्धादोपचारिका इति ॥ ३।२।१९ ॥
वृद्धि-हासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् || ३|२|२० ||
सिद्धान्तेन विरोधपरिहारमाह । विरोधो हि परिहरणीयो लोकवेदाभ्यां तदनुसारेण । महानवकाशोल्पोवकाशो यथावकाशं दश चमसानिति लौकिकवैदिकव्यवहारो वस्तुधर्मविरुद्धो दृश्यते । व्यापकत्वं वृद्धि हासौ चाकाशस्यैव । तत्र यथा करके प्रविष्ट आकाशस्तथा व्यपदिश्यते । तथा सत्युभयसामञ्जस्यं भवति । अन्यथैकतरबाधो भवति । एवं तत्तदनुप्रवेशाद् २५ ब्रह्माप्येवम् । न चौपाधिकत्वम् । जपाकुसुमलौहित्यवदन्यधर्मत्वाभावात् ।
१०