________________
१९३ ५ अरूपवदेव हीत्यधिकरणम् । [अ. 3 पा. २ सु. १८ श्रुतौ विहिताः । ते ब्रह्मण एव भवितुं युक्ताः । निषेधिकापि श्रुतिः । न हि वेदवादिनामणुमात्रमप्यन्यथा कल्पनमुचितमित्याशङ्कय परिहरति । दर्शयति श्रुतिरेव जडजीवधर्माणां भगवत्यभाव इति । द्वे वाव ब्रह्मणो रूपे (बृ. २।३।१ ) इत्युपक्रम्य द्वेधा पञ्च भूतान्युक्त्वा-अथात आदेशो ५ नेति नेति (बृ. २।२६) इत्याह । इतिशब्दः प्रकारवाची । ब्रह्म पञ्च महाभूतानि भवति नत्वेवंप्रकारकम् । तत्साधयति । न भवत्येव ब्रह्म तादृशम् । हि युक्तोयमर्थः । एतस्माज्जातमिति । न हि कार्यकारणयोरेकः प्रकारो भवति । अतो नेति नेतीति प्रकारनिषेधोपसंहारः । नतु
समवायित्वमात्रत्वम् । किंत्वन्यत्परमस्तीति रूपं निरूप्य नाम निरू१. पयति । सत्यस्य सत्यमिति । तेन प्रपञ्चातिरिक्तब्रह्मणो विद्यमानत्वात्प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रतिपादनात् । चकारः पूर्वयुक्त यनुसंधानार्थः । अथो इति प्रक्रमभेदोपि । अथात आदेश इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिराकरणायाह । अपि स्मयते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ( भ. गी. १३३१२) १५ इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनिरूपणे निषेधः । प्रपञ्चधर्मा भगवत्यु
च्यन्ते वेदादौ न तु तद्धर्मा भवन्तीति ज्ञापयति । तस्माच्छ्रतिस्मृतिभ्यामेव तथा निर्णयः ॥ ३।२।१७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ ३२॥१८॥
प्रपञ्चधर्मा भगवत्युपचारादुच्यन्ते-इत्यत्र निदर्शनमाह। अत एवे१० ममेव निर्णयमाश्रित्य-समः प्लषिणा समो नागेन समो मशकेन सम एभिस्त्रिभि
लोकैः समोनेन सर्वेण (बृ. १।३।२२) इति निरुपमस्य भगवतो यदुपमानं तत् तद्धर्मसंबन्धात् । न चात्र स्वतन्त्रतादृशधर्मवत्त्वं ब्रह्मणो वक्तुं युक्तम् । नन्विदमपि विरुद्धमित्याशङ्कय दृष्टान्तमाह । सूर्यकादिवत् । सूर्येण सहितं
जलं सूर्यकम् । यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोनु२५ मच्छन् । एकथा बहुधा चैव दृश्यते जलचन्द्रवत् ( ब्र. बि. १२)
1-ख rends श्रुतिविहिताः for श्रुती विहिताः। 19-B reads भगवत्युच्यन्ते for भगवत्युपचारादुनयन्ते ।
२५ [ अणुभाग्य )