________________
अ. ३ पा. २ सू. १५]
अणुभाष्यम् ।
१९२
ध्यमात्रेण व्यवहारः कर्तुं शक्यते । तथा लौकिकवाङ्मनोभिर्न शक्यते व्यवहर्तुम् । ईश्वरसंनिधाने तु शक्यत इति द्वयमाह श्रुतिः । कुत एतद् - वगम्यते तत्राह । अवैयर्थ्यात् । अन्यथा शास्त्रं व्यर्थं स्यात् । चकाराद्धर्माणां तथात्वविरोधः परिहृतः । आसीनो दूरं व्रजति ( क. १।२।२० ) अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ( श्वे. ३।१९ ) इत्यादावलौकिका भगवद्धर्मा उच्यन्ते । अकारणककार्यवचनाद् ब्रह्मधर्माणां चाकार्यत्वं बोधयति । तस्मादव्यवहार्येपि न शास्त्र - फल्यम् || ३|२/१५ ॥
आह च तन्मात्रम् ॥ ३।२।१६ ॥
किंचिदाशङ्कय परिहरति । नन्वलौकिकानीन्द्रियाणि विरोधाभावाय कथं न कल्प्यन्ते । अन्यथाकारणककार्यत्वं तस्य च नित्यत्वमलौकिकत्वं ततश्व पश्यत्यचक्षुरिति विरोध इत्याशङ्कय परिहरति । आह च श्रुतिः स्वयमेव तन्मात्रं प्रज्ञाघनमात्रम् । स यथा सैन्धवघमोनन्तरोबाह्यः कृत्स्नो रसघन एवं वा अरेयमात्मानन्तरो बाह्यः कृत्स्नः प्रज्ञानघन १५ एव ( बृ. ४।५।१३ ) इति स्वरूपातिरिक्तानामिन्द्रियाणामभावात् । च क्रियाभावोपि । वेदविरोधेन तथा कल्पयितुमशक्यत्वात् । वेदनिःश्वासायनभूतसमुत्थानादेरुक्तत्वाच्च । अतो नेन्द्रियाणां परिकल्पना । किंतु सर्वाकारस्वरूपं वस्त्वेव तादृशमिति मन्तव्यम् । कृत्स्नवचनात् । चकारात् - सर्वेन्द्रियविवर्जितम् (भ.गी. १३ १४ ) इति स्मृतिरपि । २.० तस्मान्नेन्द्रियकल्पनाविरोधः ॥ ३।२।१६ ॥
१०
दर्शयति चाथ अपि स्मर्यते ॥ ३।२।१७ ॥
पुनः प्रकारान्तरेण विरोधमाशङ्कय परिहरति । ननु ब्रह्म जगत्कारणमिति सिद्धम् । तच्च समवायि निमित्तं चेति । कारणधर्मा एव हि कार्ये भवन्ति । असंभावनायां त्वन्यथा कल्पनम् । कामादयो धर्माश्व
18-A, C and D read कल्पनया बिरोधः for कल्पनाविरोधः ।