________________
५ अरूपवदेव होत्यधिकरणम् । [अ. 3 पा. २ सू. १५
__ ५ अरूपवदेव हीत्यधिकरणम् । अरूपवदेव हि तत्प्रधानत्वात् ॥ ३।२।१४॥
एकदेशिमतेन समाधानमाह । कथमत्र संदेहो विरोधो वा। जडजीवधर्माणां विधिनिषेधयोर्हि जडजीवधर्मा भवन्ति । अन्यत्र तूपदि५ श्यमाना उपासनार्था भवन्ति । ननूक्तो भेदाभावः । सत्यम् । तथापि कार्यकारणांशभावकृतस्य भगवद्विहारार्थं जातस्य भेदस्य निषेधुमशक्यत्वात् । तस्माद् ब्रह्मणि जडजीवधर्माणां निषेधो युक्तः । उपचारात्तु सर्वकर्मादयः। विपरीतं किं न स्यादत आह । अरूपवदेव । रूप्यते निरूप्यते व्यवह्नियत इति रूपं सर्वव्यवहारविषयत्वं तद्युक्तं रूपवद्विश्वम् । ब्रह्म तु तद्विलक्ष। णम् । कार्यकारणांशांशिनो_लक्षण्यस्य युक्तत्वात् । नन्ववैलक्षण्यमपि युक्तं
कारणत्वादत आह तत्प्रधानत्वात् । तस्य ब्रह्मणः प्रधानत्वान्मुख्यत्वात् । यत्र हि तत्प्रतिपाद्यते तत्र तस्य मुख्यत्वम् । ब्रह्मप्रतिपादने ब्रह्मधर्माणामेव मुख्यत्वम् । नान्यधर्माणाम् । यथा प्रशासनस्य मुख्यत्वं तथा सर्वकर्मेति लौकिकधर्मानुवादेन भगवत्संबन्धे स्पष्टमेवामुख्यत्वम् । विशि.५ ष्टबोधनेपि सर्वशब्दस्य प्रसिद्धानुवादकत्वादतिरिक्तकल्पनायां गौरवात् प्रमाणाभावाच्च यथाकथंचित्तद्धर्मत्त्वेन ज्ञानस्यैवोपयोगाल्लोकधर्मानेवानद्य वैशिष्ट्यबोधनमुचितम् । अरूपमिति वक्तव्येरूपवदिति वचनं भिन्नधर्माणामेवैवं निर्णयो न तु प्रशासनवद् भगवद्धर्माणाम् । तस्मात्कार्यवत्तद्धर्माणामपि कार्यत्वाद् भगवत्त्वं न भगवद्धर्मत्वमिति सिद्धम् ॥ ३।२।१४ ॥
प्रकाशवच्चावैयात् ॥ २२॥१५॥ . ननु सर्वव्यवहारातीते शास्त्रवैफल्यम् । मनसैवेदमाप्तव्यम् ( क. ४।११) इति विरोधश्च न परिहतः । तं त्वौपनिषदं पुरुषं पृच्छामि (बृ. १९।२६) यतो वाचो निवर्तन्ते ( तै. २।९ ) इति चेत्यत
आह । प्रकाशवत् । सौरप्रकाशो व्यवहार्योव्यवहार्यश्च । न हि स्वतः २५ संपादयितुं शक्यते स्थापयितुं वा । आगते तु सूर्ये मेघाद्यभावे च सांनि
12-.reads यत् for तत् ।