________________
अ. 3 पा. २ व. ११)
अणुमाग्यम् ।
१९०
त्वातिमृत्युमेति ( श्वे. ३१८) भक्त्या मामभिजानाति यावान्यश्चास्मि यादृशः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् (भ.गी. १८५५) इति ज्ञानानन्तरमेव सायुज्यप्राप्तेः । नच-यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम् (के. २।११) इति ५ वाच्यम् । शास्त्रानारम्भप्रसंगात् । अयं च विरोधः परिहरणीयः । सर्वे हि विरोधा अत्र चिन्त्यन्ते । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधः । अनुवादकत्वेन वैयर्थ्यापत्तेः । न च भगवति भेदोस्ति । प्रत्यारम्भमेकमेवाद्वितीयमिति वचनात् । अल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । श्रुत्यविरोधार्थमेव हि प्रवृत्तेः । तस्मान्न मतान्तरानुसारेण जडजीवधर्मा
णां सत्त्वासत्त्वे परिहर्तुं शक्ये ॥ ३।२।११ ॥ १० न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ३२॥१२॥
प्रकारान्तरेण समाधानमाशङ्कय परिहरति । न भवदुक्तो विरोधः संभवति । भेदात् । कारणकार्येषु सर्वत्र भेदाङ्गीकारात् । प्रपञ्चविलक्षणं ब्रह्म भिन्नम् । प्रपञ्चधर्मवद् ब्रह्म भिन्नम् । तथाज्ञातं ज्ञातं च । एकस्य
भेदस्याङ्गीकारे सर्वमुपपद्यत इति चेन्न प्रत्येकमतद्वचनात् । अभेदवचनात्। १५ इयं पृथिवी सर्वेषां भूतानां मधु (बृ. २।५।१ ) इति ब्राह्मणे-अयमेव स योयम् (बृ. २।५।१ ) इति सर्वत्राभेदवचनात्कार्यकारणरूपप्रकाराणां भेदनिषेधात् । तस्मान्न भेदाङ्गीकारेण श्रुतयो योजयितुं शक्याः॥३।२।१२॥
अपि चैवमेके ॥ १२॥१३॥ भेदाङ्गीकारे बाधकमाह । अपिच । एवमेवाभेदमेव भेदनिषेधे२० नैके शाखिनो वदन्ति । मनसैवेदमाप्तव्यम् । नेह नानास्ति किंचन । मृत्योः
स मृत्युमाप्नोति य इह नानेव पश्यति ( क. ४।११) इति भेददर्शननिन्दावचनात् । तस्मान्न भेदाङ्गीकारः कर्तुं शक्यः । इवशब्दो बहु स्यामिति व्यावृत्त्यर्थः । तस्मादुपनिषत्सु सर्वप्रकारोविरोधः सिद्धः ॥ ३२।१३॥ ४ ॥