________________
१८९
४ उभयलिङ्गाधिकरणम् । [ अ. पा. २ सु. ११
प्राणधर्मत्वात् । यथा बाल्यं शरीरधर्मः । व्यर्थश्च विचारः । जीवावस्था एव हि विचार्यते । केवलसाक्षिवादस्तु न ब्रह्मवादः । तस्मादेक एव जीवः स्वप्नादिदोषसंबन्धरहितस्तादृशजन्मयुक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ ३।२।१० ॥ ३॥
४ उभयलिङ्गाधिकरणम् ।
न स्थानोपि परस्योभयलिङ्गं सर्वत्र हि || ३ | २|११ ॥ इदानीं विषयनिर्धारार्थं ब्रह्मस्वरूपं विचार्यते । तत्र प्रथममन्योन्य1 विरुद्धवाक्यानां निर्णयः क्रियते । तदर्थमेतावत् सिद्धम् । समन्वयाविरोधाभ्यामेकमेव ब्रह्म प्रतिपाद्यत इति । तत्र यथा कार्यविरोधः परिहृत १० एवं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथाबोधकता स्यात् । तत्र स्वगतधर्माणामविरुद्धानामग्रिमे पादे विचारः । जडजीवधर्मत्वेन प्रतीतानामत्र विचारः क्रियते । तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते । क्वचिन्निषिध्यन्ते । यथा - सर्वकर्मा सर्वकाम: ( छां. ३ | १४।२ ) । न चैते जीवधर्मा एव न भवन्तीति वाच्यम् । उच्चावचकर्मणां कामानां च जीव१५ मतत्वप्रतीतेः । नेतरोनुपपत्ते: ( ब्र. सू. १।१।१६ ) इति सर्वत्र वैलक्षण्यस्योक्तत्वात् । कार्यविशेषधर्माणां कारणे वक्तुमशक्यत्वात् । नच कारणधर्मा एव सर्वे कार्येशे वा प्रतीयन्त इति वाच्यम् । अस्थूलमनणु (बृ. ३/८/८ ) इत्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्षण्यस्योक्तत्वात् । अत्र केचिदविरोधमेवमाहुः सर्वत्र कारणत्वाद्भगवानस्ति । ततश्चा२. स्थूलेस्थूलोनणावनणुरुच्चावच कर्तर्युच्चावच कर्तोश्चावचकाम उच्चावचकामः पृथिव्यां सर्वगन्धो जलादावगन्धः । एवं रसादिषु । एवं स्थानत: परस्योभयलिङ्गमुपपद्यते । अथवा कारण एव रूपमरूपं चावच्छेदेभेदेनाचिन्त्यसामर्थ्याद्वा । अन्यथासतः सज्जननप्रसंग इत्यपिना संगृहीत इति । एतदुभयमपि न । कुतः । सर्वत्र हि । सर्वत्रैवैतादृशं रूपं भगवत उपदिश्य२५ ते । हि युक्तोयमर्थः । भगवत्स्वरूपप्रतिपादकानि ह्येतानि वाक्यानि न त्वनुवादकानि । वैयर्थ्यापत्तेः । अचिन्त्यत्वे ज्ञानानुदयः । तमेव विदि
1
२०
1