________________
भ. पा. २ सू. १] अणुभाग्यम् ।
१८८ अतो भगवदिच्छया देहनिर्वाहाय तत्स्थाने नियुक्तोन्य एव जीवः समायातु । अन्यतः प्रबोधे तु स एव । व्यवहारस्तु तावता सेत्स्यति । मुक्त्यर्थं प्रयत्नस्तु न कर्तव्य इत्याशङ्कय परिहरति तुशब्दः । अस्मादपि प्रबोधे स एव । कुतः । कर्मानुस्मृतिशब्दविधिभ्यः । चत्वारो हेतवः । लौकिकवैदि५ कयोनिकर्मभेदात् । तत्र लौकिके कर्मणि सामिकृतकर्मणः शेषसमाप
नात् । न हि कश्चिदपि सुषुप्तप्रतिबुद्धः सामिकृतं न समापयतीति क्वचिसिद्धम् । तथानुस्मृतिः । न हि पूर्वदृष्टं न स्मरतीति क्वचित् सिद्धम् । शब्दाश्च-पुण्यः पुण्येन कर्मणा भवति पापः पापेन (बृ. ४।४।५)
वैष तदाभूत् कुत एतदागात् (बृ० २।१।१६) इति । तथा सति संप१. येत्यादयश्च । विधयश्च । श्वोभूते ब्रह्माणं वृणीते । ( आ० सू० ४।४।१) श्वोभूते शेष समाप्नुयात् । एक एव यजेत । द्वादश रात्रीर्दीक्षितः स्यात् (तै० सं० ५।५।६।७) इत्यादि । यः कामयेत वीरो म आजायत (ते. ब्रा० २।२।१ ) इत्यादयः। भगवतैव मर्यादारक्षार्थं तथा करणम् ।
पूर्वपक्षेषूक्तयो दुर्बलाः । तस्मात्स एव प्रतिबुध्यते ॥ ३।२।९ ॥ १५ मुग्धेर्धसंपत्तिः परिशेषातू ॥ १२॥१०॥
किंचिदाशङ्कय परिहरति । ननु यत्र कर्मानुस्मृतयो न सन्ति तत्रान्यो भविष्यति । क्वचिन्मूर्छादिविशेषे सर्वस्मृतिनाशेन मुग्धभावदर्शनात् । तत्र यथा लौकिकवैदिकव्यवहारास्तथान्यत्रापि भविष्यन्ति ।
अनुस्मरणादयश्च बुद्धिवृत्तयः। गङ्गाप्रवाहजलस्य गङ्गावद् य एव चिदंश२० स्तत्रायाति स एव तथा भवतु किं स एवेति निर्बन्धेनेत्याशङ्कय परिह
रति । मुग्धे मुग्धभावेर्धसंपत्तिरेव न सर्वा । न हि मुग्धस्य यज्ञादावधिकारोस्ति । पूर्वप्रवृत्तानि तु जीवनाधिकारात् क्रियन्ते । लौकिकन्यवहारोपि नापूर्वः सिध्यति । पूर्वोक्तहेतुसद्भावे तु न कोपि दोषः। अतो
मुग्धेर्धसम्पत्तिः पूर्वैव नोत्तरा । कुत एतत् । परिशेषात् । स एव वा न २५ वेति निश्चयप्रमाणानामभावादर्थात्संदेहोवशिष्यते । तस्मात् संदेहान्मुग्धे
धप्रतिपत्तिः । न तत्र प्राणायनविघातकृता मूर्छा विचार्यते । तस्याः 22-ख reads वृत्तानि for प्रवृत्तानि ।