________________
१८७ ३ अतः प्रबोध इत्यधिकरणम् । [अ. 3 पा. २ सू. ९ षुप्तावस्थाया अकामरूपत्वश्रुतेः । तद्वा अस्यैतदात्मकाममाप्तकाममकाम रूपम् (बृ. ४।३।२१) इति नाडीप्वात्मनि चेति ग्रहणात्सुषुप्तिर्द्विविधेति सूचयति । तथा हि हिता नाम नाड्यः पुरीतत्यन्ता हृदयदेशाद्वाह्याः । आभ्यन्तरः परमात्मा । हृदयदेशस्तु जीवस्येन्द्रियाणां च स एव ५ देशः । तत्र निद्रया भगवच्छक्त्या बहिर्दृष्टयाच्छादने भगवल्लीलायां तां पश्यति । तत्राप्याच्छादने गाढसुप्ता जानरहितः क्रियाशक्त्यान्तर्भगवन्तं वा प्रविशति । बहिर्नाडीषु वा समायाति । अत एव बृहदारण्यकषष्ठे-यत्र सुप्तो न कंचन कामं कामयते ( बृ० ४।३।१९ ) इति वारद्वयमाह । ता वा अस्यैता हिता नाम नाड्यः । तद्वा अस्यैतदात्मकामम् (बृ०४।३।२१) " इति भेदेन । सुषुप्तिस्तूभयत्र ज्ञानशक्तेः सर्वथा तिरोधानात् । तस्मात्सुषुप्ती न प्रपञ्चसृष्टिः ॥ ३।२।७२ ॥
३ अतः प्रबोध इत्यधिकरणम् ।
अतः प्रबोधोस्मात् ॥ ३२॥८॥ प्रबाधे संदेहः । प्रतियोन्यादति बुद्धान्तायैव (बृ०४।३।१५) इति ५ जीवसमानधर्मप्रकरणे निरूपितम् । तता नाडीभ्यः पुनर्हदयदेशं गत्वा भगवतो वा समागत्य जागर्तीति । आहोस्विद्यत्र स्थितस्तत एव जागतीति । तत्र श्रुत्यनुरोधाद्धृदयदेशमागत्य जागर्तीत्येवं प्राप्ते ।
उच्यते । अतो नाडीभ्य एव प्रबोधः । गर्तपतितस्य प्रबोधे हि ततो गमनम् । प्रतियोन्याद्रवणं तु भगवत इति । किंच । प्रबाधास्मात् । १० अस्मादात्मनः सकाशादेव प्रबोधः । प्रिययेव संपरिष्वक्तस्य बोधाभावे
कथमागमनम् । अत एव संपरिष्वक्तो निबिडनिद्रः । तस्माद्यत्रैव तिष्ठति तत एव प्रबोध इति सिद्धम् ॥ ३।२।८ ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः॥ ३२॥९॥ . किंचिदाशङ्कय परिहरति । ननु प्रिययेव प्राज्ञेनात्मना परिण्व५क्तस्य.ब्रह्मलोकं गतस्य प्रबोधेन ज्ञाने मुक्त एव भवेन तु पुनरागच्छेत् ।