________________
अ. . .पा. २ सू. ६] अणुभाज्यम् ।
१८६ कश्चित्परशब्देन देहादिमाह । तदाभिध्यानयोगयोराकस्मिकता स्यात् । सर्वस्य वशी सर्वस्येशानः (बृ०४।४।२२ ) इति विरोधश्च । कश्चित्तु-तस्याभिध्यानात् तृतीयं देहभेदः -इति श्रुत्यनुरोधेन जीवकर्तृकाभिध्यानं मत्वातिरोहितमिति कल्पयति । विपर्ययशब्देन च मोक्षम् । ५ बबध्याहारेण च सूत्रद्वयं योजयति । तद् ब्रह्मवादापरिज्ञानादसंगतेश्च साधनोपदेशस्य भ्रान्तोक्तमित्युपेक्ष्यम् । निद्राया विवेकज्ञानाभावावसरत्वायथाव्याख्यात एवार्थः ॥ ३।२।६।१॥
२ तदभावो नाडीष्वित्यधिकरणम् । तदभावो नाडीपु तच्छृतेरात्मनि च ॥ ३।२।७ ॥ १० प्रसंगाज्जीवस्याज्ञानं निरूप्य सुषुप्तों कवलमज्ञान निरूपयितुं स्था
नस्वप्नाभावे निरूपयति । एवं यत । नाडीरनक्रम्य-तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यति । अथास्मिन्प्राण एवैकधा भवति ( कौ० ४।१९) इति । तथा-प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन
वेद नान्तरम् ( बृ० ४।३।२१ ) इति । तत्र संशयः । स्वप्नवत्प्रपञ्चसृष्टिं १५ मायिकीमपि भगवान्करोति नवेति संशयः । तत्र य एष सुप्तेष जागर्ति
(क. २।५।८ ) इत्यत्र जीवस्वापमात्रे भगवत्सृष्टेरुक्तत्वात्-स्वप्नं न कंचन पश्यति ( कौ० ४।१९) इत्यत्रापि दर्शनमात्रनिषेधात्-न बाह्यं किंचन वेद नान्तरम् (बृ. ४।३।२१) इति च जागरणस्वप्नप्रपञ्चयो
रविशेषणादर्शनकथनात्सुषुप्तावपि प्रपञ्चनिर्माणमस्तीत्यवगन्तव्यम् । ततश्च २० कस्यामप्यवस्थायां प्रपञ्चव्यतिरेकाभावान्मुक्तावाप स्यात् । स्वाप्ययसंप
त्योरज्ञानमात्रविशेषात् । सति संपद्य न विदुः । सति संपद्यामहै ( छां०६।९।२) इति । तस्माद् बाह्यसत्संपदोर्विद्यमानयोरपि यथा ज्ञानाभावादग्रहणमेवं प्रपञ्चस्यापीत्येवं प्राप्ते ।
उच्यते । तदभावो नाडीषु । तस्य स्वप्नस्याभावो नाडीषु । तथा२५ त्मनि च । कुतः । तच्छ्रतेः । प्रपञ्चाभावश्रुतेः । कामनया हि प्रपञ्चः । सु