________________
१ संध्याधिकरणम् ।
[ अ. पा. २ सू. ६
इत्यादिश्रुतेः । किंच | आचक्षते च तद्विदः । स्वप्नाध्यायविदस्तथैवाचक्षते । आरोहणं गोवृषकुञ्जराणाम् इत्यादिना । तस्मात्सूचनार्थं जीवदर्शनमिति || ३|२|४ ॥
१८५
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ३२५ ॥
1
किंचिदाशङ्कय परिहरति । ननु जीवाय भगवान् सृष्टिं करोति प्रदर्शयति च सर्वलीलाम् । अंशश्चायम् । कथमस्य दुःखित्वमित्याशङ्कय परिहरति शब्दः । अस्य जीवस्यैश्वर्यादि तिरोहितम् । तत्र हेतुः पराभिध्यानात् परस्य भगवतोभितो ध्यानं स्वस्यैतस्य च सर्वतो भोगेच्छा तस्मादीश्वरेच्च रेच्छया १० जीवस्य भगवद्धर्मतिरोभावः । ऐश्वर्यतिरोभावाधीनत्वम् पराधीनत्वम् । वीर्यतिरोभावात्सर्वदु:खसहनम् | यशस्तिरोभावात्सर्वहीनत्वम् । श्रीतिरोभावाज्जन्मादिसर्वापद्विषयत्वम् । ज्ञानतिरोभावाद्देहादिष्वहंबुद्धिः सर्वविपरीतज्ञानं चापस्मारसहितस्येव । वैराग्यतिरोभावाद्विषयासक्तिः । बन्धश्वतुर्णां कार्यं विपर्ययो द्वयोः। तिरोभावादेवैवं नान्यथा । युक्तोयमर्थः । एकस्यैकांशप्राक१५ ट्येपि तथाभावात् । आनन्दांशस्तु पूर्वमेव तिरोहितो येन जीवभावः । अत एव काममयः । अकामरूपत्वादानन्दस्य । निद्रा च सुतरां तिरोभावकर्त्री भगवच्छक्ति: । अतोस्मिन्प्रस्तावे जीवस्य धर्मतिरोभाव उक्तः । अन्यथा भगवत ऐश्वर्यादिलीला निर्विषया स्यात्तस्मान्न जीवस्वरूपपर्यालोचनया किंचिदाशङ्कनीयम् ॥ ३२५ ॥
R.
देहयोगाद्वा सोप || ३|२|६ ॥
ईश्वरेच्छयैश्वर्यादितिरोभावं स्वमते निरूप्य मतान्तरेणापि नियतधर्मवादेन निरूपयति । देहयोगाद्वा । देहसंबन्धादेवास्य सर्वतिरोभावः । विपर्ययो वा । अपिशब्दादन्यत् । अस्मिन्पक्षे देहवियोग एव पुनरैश्वर्यादिप्राप्तिः । पूर्वस्मिन्कल्पे विद्यमानेपीति शेषः । न त्वीश्वरेच्छया विकल्पः ।
21-ख reads ईश्वरेच्छयैर्वैश्वर्यादि for ईश्वरेच्छयेश्वर्यादि । 23-ख reads तस्मिन् for अस्मिन् ।
२४ [ अणुभाष्य ]