________________
अं. ३ पा. २ सू. ३ ]
अणुभाष्यम् ।
१८४
कात्स्न्र्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । कृत्स्नत्वेन यस्य यादृशं स्वरूपं देशकालवस्तुसापेक्षं तथाभिव्यक्तिः कार्त्स्न्येनाभिव्यक्तिस्तदभावात् ।
अयमाशयः । श्रुतिः सृष्टिमेवाह न तस्य सत्यत्वमपि । यथा ऐतदात्म्यमिदं सर्वं तत्सत्यम् ( छां. ६/८/५ ) इति । आत्मानः स्वय५ मकुरुत । तत्सत्यमित्याचक्षते । कथमसतः सज्जायेत ( छां. ६।२।२ ) इत्यादिश्रुतिसहस्रेभ्योस्य सत्यत्वं प्रतीयते । नैवं स्वमप्रपञ्चस्य श्रुतिराह । सत्यप्रयोजनाभावाच्च । स्वप्नमात्रविहारस्तु महामाया वित्त्वान्माययापि सिध्यति । नापि भिन्नः प्रपञ्चः । जीवस्यैकत्वात् । अविद्यया मन्यते इति वचनान्न तत्सुखदुःखभोगार्थमपि सत्यत्वमङ्गीकर्तव्यम् । स्थानद्वय१. प्रतिज्ञा च विरुध्येत । जीवतो मृतांश्च पश्यतीति जीवद्वयदर्शनम् । अतो लोकद्वयप्रतिच्छायरूपत्वान्मायया क्रीडायामन्यानुरोधाभावेनातिसुखत्वाद् भगवत्कृतमात्रवाचकत्वाच्च श्रुतेरतिरिक्तकल्पनायां प्रमाणाभावाज्ज्योति:शास्त्रनियमाभावाच्च मायामात्रमेव स्वप्न इति न तत्कृतगुणदोषसंबन्धः । दीक्षितस्यान्नभोजनप्रायश्चित्तं तु भगवत्क्रीडायामपि प्रतिच्छायत्वात्क्रियते । १५ तदानीं कर्तृत्वस्यारोपात् । अन्यदा कर्तृत्वस्याशास्त्रत्वान्न धर्माधर्मजनकत्वम् । देवताज्ञादिस्तु जीवब्रह्मणोर्विद्यमानत्वाद्युक्ता । अलौकिकज्ञाने हि प्रतिच्छायत्वात्संवादः । क्वचिद्भगवदावेश ईषत्संवादोपि । तस्मात्स्वतन्त्रसत्यतायां प्रमाणाभावान्मायामात्रं स्वमप्रपञ्च इति सिद्धम् || ३|२| ३ ॥ सूचकश्व हि श्रुतेराचक्षते च तद्विदः || ३|२|४ ॥
ननु तर्हि जीवसाक्षिकमेकदेशेन किमिति सृजति तत्राह । सूचकः शुभाशुभफलसूचको भवति स्वमः । चकारात् क्वचिदाज्ञाविशेषदानम् । कलिकालादेः प्रत्यक्षे बाधकत्वात् । युक्तश्चायमर्थः । प्रातः सूचकफलस्यैव दृष्टत्वान्न तु स्वप्नपदार्थस्य । सूचकत्वे प्रमाणमाह ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्रनिदर्शने ॥
२०
२५
10- A and Cread जीवद्दय for लोकद्वय ।
( छा० ५/२/२ )