________________
१८३
१ संध्याधिकरणम् ।
[ अ.पा. २ सू.
योग्यता निरूप्यते । तत्र प्रथमं स्वप्नं निरूपयति । स्वप्नस्य सत्यत्वे तत्कृतगुणदोषसंबन्धो जीवस्य भवेत् । ततश्व निरूपिता शुद्धिर्व्यर्था स्यात् । अतः स्वप्नस्य मिथ्यात्वं प्रदर्शयितुमधिकरणारम्भः । तत्र पूर्वपक्षमाह । संध्ये स्व सृष्टिराह । तस्य वा एतस्य पुरुषस्य द्वे स्थाने भवत इदं च पर५ लोकस्थानं च संध्यं तृतीयं स्वप्नस्थानम् (बृ. ४1३1९ ) इत्युपक्रम्य - न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजते (बृ. ४ | ३ | १० ) इत्यादिना सृष्टिराह । संध्ये स्थाने सृष्टिरस्ति । यतः श्रुतिः स्वयमेवाह । युक्तश्चायमर्थः । यथा श्रुतिर्वदति तथैव स्वमे दृश्यते । देवादिवाक्यानां प्रबोधेपि बाधाभावात् । नचेयमेव सृष्टिस्तत्र दृश्यते । न तत्र रथा इत्यादिना निषेधात् । श्रुतिवादिनां श्रुतिरेव प्रमाणम् । किं पुनरनुभवसंवादिनी । तस्मात्स्वमे सृष्टिरस्ति || ३|२|१ ॥
निर्मातारं चैके पुत्रादयश्च ॥ ३।२।२ ॥
१०
काठके चतुर्थवल्लच श्रूयते । य एष समेषु जागर्ति कामं कामं १५ पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ( क० ४।८ ) इति निर्मातारमेके वदन्ति । यद्यपि सुषुप्त्युत्कान्त्योर्भेदेनेत्यत्र न तत्र रथा इत्यपि ब्रह्मप्रकरणं तथापि नियतधर्मपक्षे जीव एव कर्तेति प्रतिभाति । तदर्थं निःसंदिग्धं वचनमुदाहरति । भगवन्निर्मितत्वात् स्वप्रस्थस्यापि सत्यत्वम् । न हि कर्तुः स्वापोस्ति येन भ्रमः स्यात् । जागतीति वच२० नात् । इच्छापूर्वकं च सर्वं सृजति । शतायुषः पुत्रपौत्रानिति कामविषयाः पुत्रादय उक्ताः । तेच निर्मिताः परलोकसाधका इति लोकत्रयकल्पना । चकारद्वयेन कार्यकारणगताः सर्वे धर्मा उक्ताः । तस्माच्छ्रत्युपपत्तिभ्यां स्वमप्रपञ्चस्य सिद्धत्वात् तत्कृतगुणदोषसंबन्धे पूर्वोकदेहनिर्माणं व्यर्थमिति प्राप्तम् || ३|२|२ ||
२५ मायमात्रं तु कात्र्त्स्न्येनानभिव्यक्त स्वरूपत्वात् ॥ ३।२।३ ॥ तुशब्दः पक्षं व्यावर्तयति । स्वप्रसूष्टिर्मायामात्रम् । तत्र हेतुः