SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अ. ३ पा. १ सू. २६] अणुभाष्यम् । १८२ तथा सति न कोपि व्यभिचारः । कथं पुरुषशब्दमात्रेण च ज्ञायते तत्राह । अथ आनन्तर्यात् । शरीरार्थमेव देवैस्तत्र तत्र होमः कृतः । तत्कथं पञ्चमाहुतावेवान्यथा भवेत् । तस्मादानन्तर्यात्पुरुषाहुतिर्नात्र रेतःसिग्योगः । योगशब्देनात्राप्यन्याधिष्ठानेन रेतःसिग्यो५ गाभावः ॥ ३।१।२६ ॥ ७ ॥ ८ योनेः शरीरमित्यधिकरणम् । योनेः शरीरम् ॥ ३॥१॥२७॥ हूयमानं निरूप्य फलं निरूपयति । तस्या आहुतेर्गर्भः संभवतीत्युच्यते । तत्र संदेहः । योनावन्तःस्थितमेव फलं बहिर्निर्गतं वेति । तत्र .. गर्भशब्देनान्तस्थित एव । शरीरपरत्वे श्रुतिबाधः स्यात् । उपसंहारोप्यग्रे कर्तव्याभावादुपपद्यते । ततश्च षण्मासानन्तरं गर्ने ज्ञानसंभवाज्जननानन्तरं न गुरूपसत्त्यादि कर्तव्यमित्याशय परिहरति । योनेर्निर्गतं शरीरं गर्भशब्देनोच्यते । अग्नेत्थितस्यैव फलरूपत्वात् । मध्य भावस्याप्रयोजकत्वात् । मातृपरिपाल्यत्वाय गर्भवचनम् । कलिलादिभावे १५ पुरुषवचनत्वाभावादुपसंहारानुपपत्तिश्च । शरीरशब्देन वैराग्यादियुक्तः सूचितः । न तु स्वयं तदभिमानेन जात इति । तस्माद्योग्यदेहः साधनसहितो ब्रह्मज्ञानार्थं निरूपितः ॥ ३॥१।२७ ॥८॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणु भाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ ३१ ॥ तृतीयाध्याये द्वितीयः पादः ॥ १ संध्याधिकरणम् । संध्ये सृष्टिराह हि ॥ ३॥२॥१॥ पूर्वपादेधिकारियोग्यदेहो निरूपितः । द्वितीये जीवस्य मुक्ति 1-A reads विज्ञायते for च ज्ञायते ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy