________________
१८१
७ रेतः लिगधिकरणम् । [ अ. पा. १ सु. २६
च जीवस्य जडभावो मर्यादाभङ्गप्रसंगात् । तस्मात्कथमन्नस्य रेतोभाव इत्याशङ्कय परिहरति । अन्याधिष्ठिते वृष्टेरन्नभावसमय एवान्यैर्जीवैरधिष्ठितो व्रीह्यादिस्तस्मिन्नपूर्ववत् तद्भावापत्तिः । अतिथिवत् । पूर्ववैलक्षण्येन वा । कुतः । अभिलापात् । व्रीहियवा ओषधिवनस्पतयस्तिलमाषा ५ इति पूर्ववत्तत्तद्भावमात्रं न वदति । किंतु जगति स्थितव्रीह्यादिभाव एवाभिलप्यते । तथा सति यथान्येषु व्रीह्यादिषु तदधिष्ठातृदेवतया नियुक्ता जीवास्तानात्मत्वेनाभिमन्यन्ते एवमत्रापीति न कोपि दोष: । अधिष्ठाने हि वेदना मरणानन्तरं कृमिभावस्य दृष्टत्वात् । तस्मादन्नस्य रेतोभावो युक्तः || ३|१|२४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ ३।१।२५ ॥
किंचिदाशङ्कय परिहरति । नन्वन्याधिष्ठानेङ्गीक्रियमाणे यातना - जीवानामशुद्धत्वादशुद्धमन्नं स्यात् । तथा च कथं योग्यदेह इति चेन्न । शब्दात्-देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ( छा० १७१२ ) इति देवैराहुतिरूपेण होमवचनाच्छुद्धत्वम् । अन्यस्य हि संस्कारेणैव शुद्धिः। १५ अन्यथा यावज्जीवं का गतिः स्यात् तस्मात्संस्कारशब्दाच्छुद्धमेवान्नम् ॥ ॥ ३।१।२५ ॥ ६ ॥
१०
७ रेतः सिगधिकरणम् ।
रेतः सिग्यागोथ ॥ ३।१।२६ ॥
पञ्चमीमाहुतिं विचारयति । ननु कथं पुरुषेन्नहोमाद्रेतोभावः ।
૧૦
२० बाल्य कौमारवार्द्धकेषु व्यभिचारात् । तारुण्येपि न हि सर्वमन्नं रेतो भवति । जातमपि न नियमेन योनौ सिच्यते । नापि देवापेक्षा । पुरुषप्रयत्नस्य विद्यमानत्वादित्याशङ्कय परिहरति । रेतः सिग्योगः । पुरुषशब्देन पौरुषधर्मवानुच्यते । पौरुषं च देशकालसंनिधानेन मन्त्रवद्रेतःसेकसामर्थ्यम् । न ह्येतत्सार्वजनीनं सार्वत्रिकं वा । तदर्थं देवापेक्षा ।
/
3-ख reads भावापत्तिः for तद्भावापत्तिः ।
19-A and C read पश्चमाइतिं for पञ्चमीमाद्दतिम् ।