________________
૨૮૦
अ. पा. १५.२२ ]
अणुभाष्यम् ।
इति जायन्त इत्यन्तेन । तत्र यथेतमित्याकाश एव । आकाशाच्चन्द्रमसमिति पूर्वमुक्तत्वात् आकाशस्य मार्गतैव । वायुर्भूत्त्वा धूमो भवतीत्यादिषु तत्तद्भावः श्रूयते । ते च विकृता: । तदनन्तरभावित्वाद् वृष्टिरपि विकृतैव । तस्मान्न कारणत्वमित्याशङ्क्य परिहरति । सा वाय्वादिरूपा५ पत्तिराभाव्यापत्तिरेव । वायुवदाभानं मध्ये वायुमण्डलमागच्छन्त्याहुतिर्वायुभवनशब्देनोच्यते । आकृतेरेव पदार्थत्वाद् व्यापत्तिशब्देनोच्यते । आकृतेरेव पदार्थत्वाद् व्यापत्तिशब्देन च तेजोभावापन्नस्य जलभावापत्तौ कान्तिनाशान्नाश इवेति द्योतयति । कुतः । उपपत्तेः । तथैवोपपद्यते चित्रतुरगादिषु विकारस्य विकारान्तरापत्तावियमेव व्यवस्था | उपासनायां १० न तदपि । न च भूत्वा तेर्बाधः । प्रतिनियतपदार्था हि ते । भवनावरोहाभ्यामेव तथा वचनात् । अन्यस्यान्यभावं वदन्ती श्रुतिरेव गौणत्वं वदति । कारणांशभाक्व्यतिरिक्तस्थले तथैव प्रतीतेः । तस्मात्तदाकृतिमात्रेण न स्वरूपान्यथाभावः || ३|१|२२ ॥
1
नातिचिरेण विशेषात् || ३|११२३ ॥
१५
उपपत्त्यन्तरमाह । तद्रूपता च नातिचिरेण । न बहुकालं तद्रूपता । कुतः । विशेषात् । अन्नभावापन्नस्यैव बहुकालश्रवणात् । अतो वै खलु दुर्निष्प्रपततरमिति । प्रापतरं प्रपतरं वा । वर्णलोपश्छान्दसः । अतस्तृतीयाहृतौ न चिरेणेत्यायाति । बहुकालस्थितौ हि तद्रूपता । कारणवशाद्देवानां मनुष्यभावात् । भिन्नपक्षे न कोपि दोष: । ऐक्यपक्षेपि २. ज्ञानवतो गृहस्थस्य दुर्लभत्वादेवं वचनम् । तस्माद्दृष्टेरन्नं भवतीति सिद्धम् ॥ ३।१।२३ ॥ ५ ॥
२०
६ अन्याधिष्ठित इत्यधिकरणम् ।
अन्याधिष्ठिते पूर्ववदभिलापात् || ३|१|२४ ॥ चतुर्थ्याहुतिर्विचार्यते । ननु - संसर्गजैः कर्मदोषैर्याति स्थाव२५ रतां नरः–इति कथमस्यान्नत्वम् । अपूर्वान्नत्वेपि कण्डनपाकादिषु क्वेशेन जीवस्यापगमात्कथं रेतोभावः । चर्वणौदर्यपाकस्त्वावश्यक एव । न