________________
५
५ शब्दावरोधाधिकरणम् | [31.391.9.22
वाक्यादिश्रवणम् । तस्माद्वैवस्वतमार्गे न किमपि बाधकमिति सिद्धम् ॥
॥ ३।१।२०४४ ॥
५ शब्दावरोधाधिकरणम् ।
तृतीये शब्दाविरोधः संशोकजस्य ॥ ३।१।२१ ॥ तृतीयामाहुतिं विचारति । तत्र वृष्टेरन्नामिति तृतीयाहुतिः सफला । पूर्वद्वयं शब्दैकसमधिगम्यम् । वृष्टेरन्नमिति साधनफलयोः प्रत्यक्षत्वान्न वृष्टिमात्रेणान्नं भवति बीजव्यतिरेकेण । बीजस्य हि फलम् । न निमित्तमात्रेण तद्भावो वक्तुं शक्यते । तस्मादसंगतं दृष्टेरन्नामित्याशङ्कयाह । तृतीये शब्दावरोधः । तृतीयाहुतौ शब्देन शब्दसाम्येन कारणभूतस् १० जलस्थावरोधो ग्रहणम् । सदेव सोम्येदमग्र आसीत् ( छां. ६ २१ ) इत्यत्र । तत्तेज ऐक्षत बहु स्यां प्रजायेयेति । तदपोसृजत तस्माद्यत्र कष शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ( छां. ६ २२३ ) इत्यत्र कारणरूपाणां निरूपणं शौकजत्वमपामुक्तम् ।
१७९
२०
अग्रेच-तस्माद्यत्र क्वच वर्षति तदेव भूयिष्ठमन्नं भवति ( छां. १५ ६।२।४ ) इति । अतः पञ्चाग्निविद्यायामपि देवहोमात्कारणभूतैव दृष्टिजति नात्र बीजान्तरापेक्षा । शोकपदेन यदश्र्वश्रीयत तदजत हिरण्यमभवत् ( तै० सं. १।५।१ ) इति सहायः सूचित: । यद्यपि तत्रान्नशब्देन पृथिवी तथाप्यत्र पृथिव्या अग्निसमिद्रूपत्वादन्नमेव । तस्मात्कारणशक्तियुक्ताया वृष्टेरन्नं भवतीति न काप्यनुपपत्तिः ॥ ३।१।२१ ॥ साभाव्यापत्तिरुपपत्तेः ॥ ३।१।२२ ॥
किंचिदाशङ्क्य परिहरति । नम्र कारणजलरूपवृष्टिरत्र वक्तुं न शक्यते । यतः समानधूममार्गश्रुतौ वृष्टेरन्नभाव ऐक्ये वा तस्मिन्यावत्संपातमुषित्वा अथैतमेवाश्वानं पुनर्निवर्तते यथेतमाकाशमित्यादिना तिलभाषा
5-A and ( read वृ॑ष्टेरनं भवतीति for दृष्टेरन्नमिति । 22 - ख om. यत: before समान ।