________________
भ. . पा. १ सू. १७]
अणुभाग्यम् ।
इत्यस्याः श्रुतेः का गतिः । पञ्चामिविद्याप्रस्तावे वा यमगतिः कुतो नोक्ता । तस्माद् वेदविरोधान्न तृतीयपक्षसिद्धिरित्याशङ्कां परिहरति तुशब्दः । अत्र वेदान्ते गौणमुख्यफलदेहाथ विद्याकर्मणोरेव हेतुत्क्म निरूपणं विद्यया देवयानं कर्मणा सोमभाव इति तयोरेव प्रकृतत्वात् कारणत्वात् । ५ तेन कौषीतकिब्राह्मणेपि प्रकृतत्वात् कर्मिण एव सर्वशब्देनोक्ताः । अत्रापि न यममार्ग उक्तः । तस्माद्विद्याकर्मणोर्मुख्यत्वान्मार्गद्वयमेवोक्तं नैतावता तृतीयबाधः ॥ ३।१।१७ ॥
न तृतीये तथोपलब्धेः ॥ ३॥१॥१८॥
ननु द्वयोः स्तुत्यर्थं यस्तृतीयो मार्ग उक्तः । अथैतयोः पथोर्न 3. कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति (छां.
५।१०८ ) इत्यादिना जुगुप्सेतेत्यन्तेन तृतीयनिन्दया वयोः स्तुतिरिति स एव तृतीयोस्सु किं यममार्गेणेत्यत, आह । न तृतीये मार्गे तथा पुण्यपापयोरुपभोग उपलभ्यते । यतः समानब्राह्मणे-कीटः पतङ्गो यदि
दन्दशूकम् (बृ. ६।२।१६) इति योनौ निवृतेर्विद्यमानत्वान्न महापा१५ पोपभोगः। नापि कीटादिषु महासुखोपभोगः। एकवाक्यता चोभयोयुक्ता ।
यद्यपि महाराजादिराजदण्डादिषु तथोपभोगः संभवति तथापि रम्भादिसंयोगे नरके च यथा तथा न संभवति । जडे तु पञ्चम्याहुतिर्भरत एव हीश्वरेच्छया जन्मद्यमधिकम् । त्रिभिरिति वचनात् । भरतोहमिति
प्रतीतेश्च । ततः पूर्ववदस्मरणाझल्यादिवदेव जन्मत्रयम् । तस्माज्जाय२. स्वेत्यादिवलक्षण्यादतिरिक्तो यममार्गः । पञ्चाहुतिनियमाभावस्तु ज्ञानोपयोगिदेहेप्यंशावतरणे पुष्टिमार्गत्वान्न तत्र दोषः ॥ ३।१।१८ ॥
स्मयतेपि च लोके ॥ ३१॥१९॥ साधकान्तरमाह । अपि च लोकपि मर्छादिषु यमलोकगमनसंभाषणपुनरागमनानि स्मर्यन्ते ॥ ३११९॥
दर्शनाञ्च ॥ ३॥१॥२०॥ यमपुरुषा दृश्यन्तेपि कैश्चिदजामिलप्रभृतिभिः । चकारात्तेषां