________________
४ विद्याकर्मणोरित्यधिकरणम् । [ अ. पा. १ सू. १७
यमगतेः पञ्चाग्निविद्यायाश्चैषा व्यवस्था । चित्तशुद्धिभावाभावाभ्यां वावश्यं काण्डद्वयव्यवस्था एकस्यैतद वक्तव्यम् । सकाम निष्कामभेदो वा वेदान्तिनामपि पापार्थं यमापेक्षणात्सा गतिर्वक्तव्यैव । तस्मान्न सर्वेषां सोमगतिः || ३|१|१३ ॥
स्मरन्ति च ॥ ३।१।१४ ॥
१०
१७७
स्मरन्ति व्यासादयः । यमेन पृष्टस्तत्राहं देवदेव जगत्पते । पूर्वं त्वमशुभं भुङ्क्ष्व उताहो नृपते शुभम् इत्यादि । चकाराल्लोकप्रसिद्धिः || ३|१|१४ ॥
अपि सप्त || ३|१|३५ ॥
चेत्यनुवर्तते । पापोपभोगार्थं यमालयगमनमङ्गीकर्तव्यम् । यतस्तत्र नरकाः सप्त सन्ति रौरवादयः । सप्तसंख्या संख्याभेदेष्ववर कक्षा । सर्वथा निराकरणाभावाय सप्तग्रहणम् । तस्माद्यमगतिरस्ति || ३|१|१५ ॥ तत्रापि च तयापारादविरोधः || ३|१|१६ ॥ किंचिदाशङ्कय परिहरति । ननु नरकेषु चित्रगुप्तादयो भिन्ना १५ एवाधिकारिणः सन्ति । तथा सति तृतीयः पक्षः स्यादत आह । तत्र नरकादिषु येधिकारिणस्ते यमायत्तास्तत्सेवकाः । अतो यमस्यैव तत्रापि व्यापारान्न तृतीयपक्षप्राप्तिः । चकारात्सुखदुःखभागेपि । तृतीयपक्ष एव विरोधः ।
अथवा यमगतेर्मन्त्रलिङ्गसिद्धे पापस्य च पौराणिकत्वे चन्द्रगतिरे२० केव स्यादिति विरोधः । तेषां यमसेवकत्वे तु मन्त्रलिङपोषकत्वान्मार्गद्वयसिद्धेरविरोधः । तस्माद्यमगतिरस्तीति सिद्धम् || ३|१|१६|| ३ ||
४ विद्याकर्मणोरित्यधिकरणम् ।
विद्याकर्मणोरिति तु प्रकृतत्वात् || ३|१|१७ ॥ साधारणत्वाभावाय पूर्वोक्तार्थसाधकमधिकरणमारभते । ननु ये के १५ चास्माल्लोकात्पयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ( कौ. ११२ )
३ [ अणुभाष्य ]