________________
अ. ३ पा. १ सू. १२]
अणुभाष्यम् ।
नम् । तेन सर्वे चन्द्रमसं गच्छन्ति । अयमाशयः । कर्माकर्मविकर्मेति त्रिविधकर्मविधायको वेदः । अग्निहोत्रं जुहुयात् । यस्य वेदश्व वेदी च विच्छिद्येते त्रिपुरुषम् । न हिंस्याद् भूतजातानि । ब्राह्मणादीनामपि त्रिविधकरणं संभवति । न हि सर्वोप्येकान्ततो विहितं वा प्रतिषिद्धं ५ वा करोति । ततो विहितकर्तुरपि त्रयसंभवाज्ज्ञानाभावेन फलभोगनैयत्यात् सोमभावानन्तरमेवाकर्मविकर्मविभागो वक्तव्यः । अत एवाविशेषोपसंहारौ । तस्मात्सोमभावानन्तरमेव सर्वेषां जन्मेति प्राप्तम्
॥ ३।१।१२ ॥
१०
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् || ३|१|१३ ॥
१७६
तुशब्दः पक्षं व्यावर्तयति । विहितव्यतिरिक्तकर्तॄणां संयमने यमसंनिधाने सुखं दुःखं वानुभूयारोहावरोहौ । अनुभवार्थमारोहोनुभूयावरोहः । कृतः । तद्गतिदर्शनात् । तेषां गतिर्विसदृशी दृश्यते । वेदे हि प्रथमं विहित। द्वेधा गतिः । सकामा निष्कामा चेति । सकामा यथाकाममनन्तविधा | १५ निष्कामा ज्ञानरहिता द्विविधा वैदिकगृह्यस्मार्तभेदेन । तत्र गृह्यस्मार्ते यमः । श्रौते सोमभावः । तत्र त्रेताग्निविधानेन निष्कामानामदम्भानां पुण्यं स्यादित्यधिकारिविशेषणात्। विशेषतः सामान्यतश्च प्रायश्चित्तविधानात् । यदवचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते (तै. आ. २।८) इति - तरति ब्रह्महत्याम् ( तै. सं. ५/३/१२ ) इति च सर्वप्रायश्चित्तविधानात् । ब्रह्मानुभवाभावे २० सोमगतिरेव ।
पूर्वजन्मधर्मस्य चित्तशुद्धावुपयोगः । तदानीन्तनस्य गङ्गानानादेः श्रौताङ्गत्वम् । अतः पापस्याभावात्पुण्यस्योपक्षीणत्वात्तस्य पञ्चामिप्रकार एव । ज्ञानोपयोगिजन्मनि पापसंश्लेषाभावोपायमग्रे वक्ष्यति । पितृमेधप्रथमाहुतिमन्त्रस्तु मन्त्रत्वाच्चमसवन्न गतिनियामकः । त्रेताग्नि२५ विद्यारहितानां पुण्यपापोपभागो यम एव । वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः ॥ ( तै. आ. ६/५ ) इति ।